Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 224
________________ १८४ अन्तरात्मा स्वभावेन, सामीप्यं परमात्मनः । प्रपद्यते तदा मुक्तिः, सामीप्या गीयते मया ॥ शुद्धात्मभाव संप्राप्तावपि देहादियोगतः । प्रारब्धकर्म भोक्तृणां जीवन्मुक्तिः प्रचक्ष्यते ॥ समनस्काऽवगन्तव्या, मुक्तिर्मनः प्रवर्त्तिनाम् । निर्मनस्काsaगन्तच्या, मुक्तिर्मनोविनाशिनाम् ॥ मनोवाक्काययोगानां योगाच्छुद्धात्मरूपिणाम् । घातिकर्मक्षयोत्था सा, सयोगा मुक्तिरुच्यते ॥ मनोवाक्काययोगानां विनाशात्केवलात्मिका । कृत्स्नकर्मक्षयोत्था सा, निर्योगा मुक्तिरुच्यते ॥ श्रेष्ठाऽस्त्यपुनरावृत्त्या, निर्योगा सर्वमुक्तिषु । यत्र गत्वा परात्मानो, निवर्त्तन्ते न कर्हिचित् ॥ कृत्स्नकर्मक्षयो मोक्ष, एवंभूतनयोक्तितः । सर्वनयोक्तमोक्षेषु, तस्य प्राधान्यमिष्यते || पूर्णशुद्धात्ममोक्षे तु, नयाः सन्ति न वस्तुतः । पूर्णशुद्धात्मसद्रूपं, वैखर्या नैव वर्धते ॥ " मोक्ष सौख्यं सदेहेन, शुद्धात्मनाऽनुभूयते । आत्मन्येवाऽस्ति मोक्षोऽयं, तस्मान्नान्यत्र विद्यते ॥ २७१ सिद्धात्मनां परं स्थानं, मोक्ष एव निगद्यते । प्रतिष्ठितं तल्लोकाग्रे, यत्राऽऽनन्त्यं परात्मनाम् ॥ शुद्धरूपं न मुञ्चन्ति वैकुण्ठाः परमेश्वराः । अनन्तज्ञानरूपेण, वैकुण्ठस्थानमाश्रिताः | शुद्धसंग्रह सत्तातः, सर्वसिद्धात्मनां स्वयम् । परमात्मा महानेक, उच्यते पूर्णतामयः ॥ Jain Education International [ पञ्चदशाध्याये For Private & Personal Use Only २६३ २६४* २६५ २६६ २६७ २६८ २६९. २७० २७२. २७३ २७४ - www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308