Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
२४८
__ [चेटकस्तुति शुद्धात्मश्रीमहावीरप्राप्त्यर्थ भव्यमानवैः । पिण्डध्यानं विवेकेन, कर्त्तव्यमुपयोगतः ॥ ज्ञाते प्रभौ महावीरे, ज्ञातव्यं नावशिष्यते । ज्ञातो येन महावीरो, ज्ञातं तेन जगत्त्रयम् ॥ ३३२ सर्वरसोत्तमो वीरः, परब्रह्म सदुच्यते । एकोऽप्यनेकरूपेण, संकोचकविकासकः ॥ असंख्यातप्रदेशानां, संकोचो लय उच्यते । सर्ग एव विकासश्च, ध्रौव्यमात्मस्वरूपतः ॥ ३३४ आत्मरूपमहावीरः, सर्वज्योतिःप्रकाशकः । हृदि शोध्यो जनैः सर्वैः, सदगुरोः सत्यबोधतः ॥ ३३५. सर्वग्रहेषु यो वीरः, सर्वपिण्डेषु शाश्वतः। ब्रह्माण्डे सैव पिण्डेषु, सर्वसंग्रहसत्तया ॥ प्रकृत्यां वर्तमानोऽपि, भिन्नः प्रकृतितः स्वयम् । प्रकृतिर्योनिरूपाऽस्ति, ज्ञानलिङ्गं स्वयं प्रभुः॥ ३३७ लिङ्गप्रकृतिसंबन्धाद्विश्वोत्पत्तिः प्रजायते । ब्रह्माण्डेषु च पिण्डेषु, ज्ञेयमेवं स्वकर्मतः ॥ ब्रह्मैव श्रीमहावीरः, पिता विश्वस्य गीयते । प्रकृतिः शक्तिमातैर, ज्ञानं नन्दिः प्रकीर्त्यते ॥ ३३९. कर्मरूपमहायोनिरात्मलिङ्ग सदुच्यते । मन एव महानन्दिर्वीरस्यैवं त्रिमूर्तिता। महावीरो महादेवो, नाऽन्योऽस्ति भुवनत्रये । महावीरोऽस्ति सद्विष्णुर्यशोदा श्रीहदि स्थिता ॥ ३४१
३४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308