Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 298
________________ २५८ [ इन्द्रादिस्तुति जीवनं निष्फलं ज्ञेयं, स्वदेशरक्षणं विना। जीवनं निष्फलं ज्ञेयं, जैनानां भक्तिमन्तरा ।। प्रशस्यं जीवनं ज्ञेयं, स्वदेशधर्मरागिणाम् । विज्ञेयं जीवनं श्रेष्टं, जैनधर्मानुयायिनाम् । आत्मभोगं विना जैना, बाह्यजीवनमोहिनः । जीवमाना न जीवन्ति, नश्यन्ति सर्वथा भुवि ।। परस्परसहायन, जैना जीवन्ति सर्वदा। महावीरप्रभुश्रद्धाभक्तित ऐक्यभावतः॥ जैनधर्मसमो धर्मो, नैव भूतो भविष्यति । जैनधर्म समाराध्य, जैना यान्ति परं पदम् ॥ श्रीमहावीरभक्तेभ्यो, ददामि दर्शनं शुभम् । जैनानां वंशरक्षादि, करोमि भक्तिभावितः॥ वीरजन्मादिधस्त्रेषु, चन्द्रसूर्याडितर्ध्वजः। रथयात्राः प्रकर्त्तव्या, महासंघेन भक्तितः ॥ परस्परसहायार्थ, जैनानां तत्त्ववेदिनाम् । व्यवस्था वित्तदानानां, विधातव्या यथावलम् ॥ जैना जयन्ति सर्वत्र, पुरुषार्थपरायणाः । धर्मार्थकामसंपन्नाः, कलाशक्तिविवईकाः ॥ मनोवाकायशक्तीनां, बर्द्धकाः सर्वयुक्तितः । सर्वजातीयजैनानां, कलौ कलावतां बलम् ॥ सत्त्वरजस्तमोयुक्ता, जैना वीरस्य सेवकाः। तारतम्यविशेषेण, परब्रह्मपदाश्रिताः ।। परब्रह्ममहावीरानैव कोऽपि महाप्रभुः। सर्वात्मानो महावीरसमाः सत्तादियोगतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308