Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 299
________________ इन्द्रादिस्तुतिः ] आत्मन्येव महावीरं, महावीरे निजात्मताम् । पश्यन्तो योगिनो मुक्ति, याता यास्यन्ति यान्ति च ।। ५८: गीताभ्यासरता लोका, महावीरं निजात्मनि । पश्यन्तः प्राप्नुवन्त्येव, स्वकीयवीररूपताम् ॥ पञ्चयज्ञा विधातव्या, गृहस्थैर्धर्मवर्द्धकाः । ब्रह्मचर्याश्रमादीनां कर्त्तव्यं पालनं सदा ॥ विद्याव्यापार शस्त्राद्यैराजीविकाप्रधारणम् । कर्त्तव्यं सर्वजातीयजैनैः सर्वव्यवस्थया ॥ मल्लयुद्धादिकं कर्म कर्त्तव्यं प्रत्यहं शुभम् । मान्यं कदापि नाssसेव्यं, शक्तिवर्द्धककर्मसु ॥ जैनधर्म शुभाः सर्वे, धर्मा गच्छन्त्यसंशयम् । अतः कदापि नो त्याज्यो, जैनधर्मः शिवप्रदः ॥ अनायनन्तकालीनो, जैनधर्मः सुखावहः । अर्हन्तो देवदेवेशा, जैन धर्मप्रकाशकाः ॥ सर्वदेवेशवीरेण, जैनधर्मः प्रकाशितः । संप्रति जैनतीर्थेशमहावीरस्य शासनम् ॥ महावीरस्य साम्राज्ये, तद्गीता तत्स्वरूपिणी । मत्वैवं मानवैर्धार्या, सर्वशक्तिप्रदा कलौ ॥ महावीरपरब्रह्मप्राप्त्यर्थं सर्वदेहिनाम् । महावीरस्य गीतायाः, समं नाऽन्यजगत्त्रये ॥ जिनालयेषु तत्पाठ, स्वाध्यायश्च करोति यः । महावीरपरब्रह्म, प्रादुर्भवति तद्धदि ॥ गीताभ्यास कराञ्जनान्धनधान्यादिदानतः । सन्तोषयन्ति ये जैनास्ते मुक्तिश्रियमाप्नुयुः ॥ Jain Education International " For Private & Personal Use Only २५९ ६० ६१ ६२. ६३ ६४ ६५ ६६ ६७ ६८ ६९. www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308