Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
३४२
३४४
चेटकस्तुतिः ] ज्ञानाग्निर्हदयाकाशं, दर्शनं भूमिरुच्यते। आनन्दो वायुरेवाऽस्ति, सूर्यात्मा विश्वपावकः ॥ जलं शुद्धरसो ज्ञेय, इत्येवं सर्वरूपकः । आत्मरूपमहावीरः, पिण्डब्रह्माण्डवान्स्वयम् ॥ युगकल्पमहाकल्पलयसर्गविधायकः। महादेवमहावीरः, पश्चाननस्त्रिलोचनः॥ द्वित्रिचतुर्महानेत्रः, पश्चनेत्रोऽस्ति सर्वतः । सहस्राक्षो बहिश्चान्तः, सर्वविश्वप्रकाशकः ॥ चतुष्कोणस्त्रिकोणश्च, षट्कोणो ज्ञानचिह्नतः। महावीरप्रभुळक्तो, ज्ञायते सिद्धयोगिभिः॥ जिनालयस्थकूर्मादिज्ञानसंकेतचिह्नतः । महावीराऽहतो ज्ञान, ज्ञायते सर्वयोगिभिः ॥ चतुर्दशमहास्वप्नसंकेतज्ञानयुक्तयः। जैनधर्मस्य सिद्धान्तान्, दर्शयन्ति न संशयः ॥ अष्टमङ्गलसङ्केतो, जैनेन्द्रधर्मदर्शकः । दर्शयन्ति महाज्ञानं, यक्षदेव्यादिमूर्तयः॥ गुप्तज्ञानस्य चिहानि, महावीरेण युक्तितः। जिनालयादिभिः सम्यग्दर्शितानि यथा तथा ॥ पञ्चदशादिसद्यन्त्रैस्तीर्थसङ्केतबोधतः । आत्मरूपमहावीरगुप्तज्ञानं प्रकाशितम् ॥ देवविद्याधरादीनां, गुप्तः सङ्घः कलौ युगे। रक्षणं क्रियते तेन, गुप्तज्ञानस्य युक्तितः ॥ तत्प्राकटयं पुनः सैव, करिष्यति न संशयः। . महावीराहतो भक्तास्तजानन्ति विवेकतः॥
३४८
३४९
३५३
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308