Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
इन्द्रादिस्तुतिः ]
सर्वाः पूर्वादिका विद्या, गोपयिष्यन्ति देवताः । तत्प्राकट्यं च सूर्यग्रे, करिष्यन्ति पुनः पुनः ॥
"
,
साहाय्यं सूरिवर्याणां प्रविधाय पुनः पुनः । जैनधर्मस्य संसेवां, करिष्ये भक्तिभावतः ॥ मम सेवापरा देवा, देव्यश्च भुवनत्रये । जैनानां रागभावेण करिष्यन्ति सहायताम् ॥ महावीर प्रभो ! जेता, त्वया सर्व प्रमीयते । उत्पद्यतेऽखिला त्वत्तो, धर्मसृष्टिः सुखप्रदा ॥ स्वदाज्ञायां सदा धर्मस्त्वं स्वात्माऽभिन्न इष्टदः । शुद्धात्मा त्वं सदा पूज्यस्त्वयि लीनोऽस्मि सर्वथा ॥ ज्ञाते त्वय्यखिलं ज्ञातं त्वत्प्राप्तौ प्राप्यतेऽखिलम् । सर्वेशानो मुनीन्द्रस्त्वं, त्वयि सर्व समाप्यते ॥ योगिनो ये निरासक्त्या, त्वत्प्रेम्णाऽऽनन्दभोगिनः । भूत्वा त्वां प्रतिपद्यन्ते, दोषाञ्जित्वाऽतिवेगतः ॥ वीररूपान्समान् जीवान् दृष्ट्वा धर्मे विधास्यति । लप्स्यते शाश्वतं शर्म, स त्वद्भक्तशिरोमणिः ॥ पूर्वरागेण लोके त्वां, सेविष्यन्ते नरादयः । तेषां मनोरथान सर्वान्पूरयिष्यामि निश्चितम् ॥ सर्वदेवास्तथा धर्मास्त्वत्स्वरूपसमाश्रिताः । एवं विदित्वा त्वामेकं, सेवते भक्तशेखरः ॥ स्वत्तो महान्न कोsप्यस्ति सत्यमेतन्न संशयः । निराकारश्च साकारस्त्वं व्यक्तोऽव्यक्त ईश्वरः ॥ सर्वोपायान्करिष्येऽहं, जैनधर्मविवृद्धये । जैना जयन्ति सर्वत्र, श्रद्धाबलेन सर्वदा ॥
Jain Education International
For Private & Personal Use Only
२५५.
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
२०
२१
www.jainelibrary.org
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308