Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 290
________________ २५० ३५४ [ चेटकस्तुतिः पञ्चमारे महावीरयोगिनां मण्डलं स्वयम् । जैनधर्मप्रवृत्त्यर्थ, प्रविश्य सूरिसाधुषु ॥ गृहस्थगुरुचित्तेषु, यद्योग्यं तत्करिष्यति । महावीरोपदेशेन, ज्ञात्वैवं वच्मि भावतः ॥ ३५५ सर्वे तेजस्विनः सन्तु, भवन्तु ब्रह्मवेदकाः । सर्वविघ्नानि नश्यन्तु, महावीरप्रसादतः ।। श्रोतारः सर्ववक्तार, आनन्दाद्वैितयोगिनः । भवन्तु सर्वमाङ्गल्यरूपा विश्वसहायकाः॥ ३५७ परब्रह्ममहावीररूपा भवन्तु देहिनः । सर्वजातीयलोकानां, भवन्तु शर्मसंपदः॥ ३५८ ॐ अर्ह श्रीमहावीर !, कुरु शान्ति जगत्त्रये । ... कल्याणं कुरु सर्वेषां, जैनानां सर्वशक्तितः॥ मङ्गलं भगवान्वीरो, मङ्गलं जैनशासनम् । मङ्गलं जैनसंघोऽस्तु, सर्वजातीयदेहिनाम् ॥ नयैर्नयोपभेदैश्च, संस्तुतस्त्वं महाशयैः । सर्वज्ञो वीतरागोऽसि, जैनेन्द्रो विश्वशासकः ॥ स्तुत एवं मया प्रेम्णा, द्वादशव्रतधारिणा । चेटकेनाऽऽहंतेनैव, भारतदेशभूभुजा ॥ विद्यालक्ष्मीमहासत्तास्वातन्त्र्यादिप्रदायकम् । त्वदुक्तसर्वयोगेन, जैनं जयतु शासनम् ।। इति श्रीजैनमहावीरगीतायां चेटकस्तुति: समाप्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308