Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 292
________________ २५२ [शक्तियोगाऽनुमोदना कलिधर्माऽनुसारेण, सर्वजातीयशक्तये। जैनानां वर्त्तनं धर्म्यमैक्यञ्च सर्वशक्तिदम् ॥ अल्पदोषमहालाभकारकमपवादतः । चतुर्वर्णस्थसज्जैनैः, सेव्यं कर्मसु शक्तिदम् ॥ सूरिवाचकसाधूनां, साध्वीनाश्चाऽपवादतः । शक्तिवर्द्धककर्माणि, शुभानि पञ्चमारके ॥ शक्तिदायककर्माणि, जैनानामपवादतः । भविष्यक्ति कलौ तत्र, वर्त्तनं धर्महेतवे । देशकालाऽनुसारेण, स्वातल्यशक्तिवर्द्धकाः। उपाया यत्नतः सेव्या, विद्याक्षात्रबलप्रदाः ॥ श्रीवीरस्यार्पणं कृत्वा, संप्राप्तसर्वसंपदाम् । जैनैरैक्यं विधायैवं, साध्या सर्वोन्नतिः सदा ॥ प्रतिपक्षिजनैः सार्द्ध, सावधानतया सदा । सर्वशक्तिबलेनैव, वर्तितव्यं सुयुक्तितः॥ राज्यधर्मादिसाम्राज्यरक्षकवर्तकानि वै । कर्माणि जैनसंघेन, कर्तव्यानि विशेषतः ॥ प्रजाराष्ट्रमहासंघविकासाय मनीषिभिः । उदाराशयबन्धेन, संपाद्याः सर्वशक्तयः॥ चतुर्विधप्रजासंघस्वातन्त्र्यशक्तिवर्द्धकाः। औत्सर्गिकाऽपवादाभ्यां, संस्थाप्या धर्मानीतयः ॥ शक्तियोगः सदा श्रेष्ठो, वर्द्धमानेन भाषितः । संप्रति भारते तस्य, महत्ता भाविनी तथा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308