Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
२४६
[ चेटकस्तुतिः हृदभूभ्यां सर्वतीर्थानि, सन्ति सन्तो निबोधत । ब्रह्माण्डवर्तितीर्थानि, पिण्डे सन्ति निभालत ॥ ३०९ सर्वतीर्थमहावीरो, द्रव्यतो भावतस्तथा । आध्यात्मिकमहाशक्तिप्रद आत्मा स्वभावतः॥ यस्याग्रे दृष्टिवादाद्या, वेदोपनिषदागमाः । विस्फुलिंगसमा भान्ति, तं वीरं समुपास्महे ।। ३११ भूता भवन्ति वेदाद्या, भविष्यन्ति यदात्मतः। वर्द्धमानं महावीरमनन्तं समुपास्महे ॥ योगसंकेतनामानि, सूर्यादीनि स्वभावतः । आत्मवीरस्य बोध्यानि, साक्षाद्वीरमुपास्महे ॥ ३१३ अनन्तलयसर्गेषु, महावीरो महेश्वरः । पराहन शाश्वतः पूर्णः, प्रकृतेयः परात्परः॥ ३१४ वीरः कर्ता तथा कर्म, वीरः करणमुच्यते । संप्रदानमपादानमाधार आत्मरूपतः ॥ षट्कारकखरूपोऽस्ति, पूर्णशुद्धात्मभावतः । अशुद्धकारकाणां यः, शुद्धताकारकः स्वतः ॥ अयं साक्षान्महावीरो, देहयोगेन देहिनाम् । तारकः केवलज्ञानी, वीतरागो जिनेश्वरः ॥ ३१७ इन्द्रादिसर्वदेवानां, देवीनाश्च मनीषिणाम्। शासकः श्रीमहावीरः, सर्वविश्वस्य जीवकः॥ ___३१८ सप्तधातुमहापर्वेष्टितात्मा जिनेश्वरः। चतुर्दशमहालोकाऽऽकारदेहस्य धारकः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308