Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
चेटकस्तुतिः ] प्रियात्प्रियतरं गच्छन्ननन्ते परमात्मनि।. अनुक्रमाल्लयं याति, प्रेमपाकात्स्वयं जनः ॥ यद्यदंशेन मोहस्य, नाशः स्यात्तत्तदंशतः । प्राकटयमात्मवीरस्य, जायतेऽनुभवस्ततः ॥ आत्मरूपमहावीररागान्मोहस्य संक्षयः । सर्वेषामात्मनां राग, एव वीरस्य पूजनम् ॥ राग एवाऽस्ति वैराग्यं, महावीरपरात्मनि । सर्वविश्व महावीर प्रभुरेकोऽस्ति सत्तया ॥ अनन्ताऽनन्तपिण्डेषु, ब्रह्माण्डेषु च सत्तया । महावीरमभुर्विश्वे, व्यापकोऽस्ति बृहस्पतिः ॥ अनाद्यनन्तकालीनो, वीरोऽस्ति द्रव्यतः स्वयम् । ज्ञानादिव्यक्तपर्यायात्सादिसान्तोऽस्त्यपेक्षया ॥ सर्वरसस्वरूपोऽस्ति, महावीरप्रभुहृदि । सर्वनयप्रबोद्धारो, जानन्त्येवमपेक्षया ॥ एकोऽस्ति द्रव्यतो वीरः, पर्यायावहुधा सदा । एकानेकमयं वीरमात्मानं समुपास्महे ॥ सुषुप्त्याद्यास्ववस्थासु, महावीरस्वरूपताम् । विज्ञाय श्रीमहावीराः, स्वयं भवत मानवाः॥ राश्यादिकालरूपेण, महावीरो महेश्वरः। स्वाधिष्ठानादिचक्रेषु, धीरः शक्तिप्रदायकः ॥ ब्रह्मरन्ध्र महावीरश्चिदानन्दः प्रभुः स्वयम्। . तीर्थस्थानस्वरूपोऽस्ति, गुणस्थानप्ररोहकः ॥
३०३.
३०४
३०५.
३०७.
३०८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308