Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
२४३.
चेटकस्तुतिः ] देहेन्द्रियमन:स्वेव, चैतन्यानन्दशक्तयः । आत्मन एव ताः सन्ति, सोऽहं साक्षात्स्वयंप्रभुः॥ २७५. अन्यायासक्तिसंमोहम्मादाऽधर्ममत्सराः। बाघभोगविलासाश्च, सर्वसाम्राज्यनाशकाः ॥ २७६ अतिभोगविलासेन, देशसंघस्य संक्षयः । सर्वशक्तिविनाशश्च, लोकानां परतन्त्रता । स्वजनैः सर्वदा धार्या, शुद्धात्मानन्दलक्षता। बाह्यन्द्रियोपभोगेषु, वर्तमानैरपि ध्रुवम् ॥ २७८. स्वदीयधर्मसाम्राज्यनाशकाः सर्वदुगुणाः । तेभ्योऽतस्त्वजनैदरं, स्थेयमात्मविवेकतः ॥ २७९. त्वया प्रकाशिता वेदाश्चत्वारः संहितास्तथा। स्मृत्युपनिषदः सर्वाः, स्थाबादामृतनिझराः ॥ २८०. ऐतिहासिकवृत्तान्तदृष्टिवादागमादयः । पूर्वप्रकीर्णसूत्राद्या, गणेशै रचितास्तथा ॥
२८१ पार्श्वनाथजिनेन्द्रेण, वेदागमाः प्रकाशिताः । अन्येऽपि विद्यमानाच, गीताद्याः स्यात्पदाङ्किताः॥ २८२ पूर्णज्ञानसमुद्रे ते, बिन्दुरूपाः स्वरूपतः । आत्मशुद्धयुद्भवे ज्ञाने, भासन्ते ते विदां हृदि ॥ २८३ सम्यक्त्वदृष्टिलोकानां, सम्यक्त्वदृष्टियोगतः। सम्यक्तया प्रभासन्तेऽन्येवां मिथ्यातया च ते ॥ २८४ हिमालयोत्तरे खण्डे, सर्वसिद्धान्तवेदिनः। देवाः सन्ति महावीरभक्ताः पुस्तकरक्षकाः ॥ २८५ महावीरोक्तसिद्धान्तगुप्तपुस्तकरक्षकाः । भावियुगप्रधानाग्रे, कथयिष्यन्ति तान्स्वयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308