Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 284
________________ -२४४ [चेटकस्तुतिः करिष्यन्ति च ते प्रीत्या, जैनधर्मप्रभावनाम् । “प्राकटयं देवदेवीनां, कलौ जातेस्तथाऽवधेः॥ २८७ चमत्कारेण सूर्याद्या, जैनधर्मोन्नतिं शुभाम् । करिष्यन्ति महावीरजैनेन्द्रभक्तिभाविताः ॥ २८८ अनाद्यनन्तकालीना, त्वद्गीता सत्यभावतः। त्वन्मुखाव्यक्ततां प्राप्ता, जयत्वाचन्द्रभास्करम् ॥ २८९ त्वद्भक्तैः सर्वजातीयगृहस्थैस्त्यागिभिस्तथा । स्वदुक्तसर्वयोगेषु, वर्तितव्यं प्रयत्नतः ॥ ॐ अर्ह श्रीमहावीर ! सर्वकल्याणकारक!। जैनधर्मप्रचाराय, भव सर्वत्र शक्तिदः ॥ त्वज्ज्ञानस्य प्रभावेण, संस्तुतः सर्वयोगतः । सर्वनयोक्तिगंभीरा, स्तुतिस्तव कृता मया ॥ प्रवर्त्तन्ते मदुक्त्या ये, त्वदाज्ञायां महाजनाः। * परब्रह्मपदं यान्ति, शुद्धात्मत्वत्प्रसादतः ॥ अन्यत्किश्चिन्न वाञ्छामि, स्वांविना भुवनत्रये । यद्यद्धाञ्छामि तत्तत्त्वं, यत्र तत्र यदा तदा ॥ मददि त्वं सदैवाऽसि, मत्सर्वस्वस्वरूपक !। मनोवाकायकर्माणि, त्वत्सेवैव भवन्तु मे ॥ ब्रह्माण्डे विद्यते यद्यत्तत्तत्पिण्डेऽस्ति वस्तुतः। भावान्तशोधकोऽनन्ते, वीरे याति लयं क्रमात् ॥ २९६ दृश्याऽदृश्यं प्रियं सर्व, महावीरः स्वयं हृदि । आकर्षति महाशक्त्या, ज्ञानेन पूर्णचेतनः ॥ २९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308