Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 276
________________ २३६ [ चेटकस्तुतिः धर्माधर्मादिद्रव्याणां, धर्माज्ञाया नियामकः । अनाद्यनन्तकालीनमहावीरो हृदि स्थितः ॥ सर्वजातिकलानाथः, सर्वजातिकलाप्तये । महावीरः सदा सेव्यः, सर्वजातिजनैर्मुदा ।। नित्यानन्दमयं पूर्ण, परात्मानं सनातनम् । महावीरं हृदि प्राप्य, पूर्णरामो भवेज्जनः॥ स्पर्शेन्द्रियादिभोगेषु, पूर्णरामो न मुह्यति । प्रारब्धकर्मभोक्ताऽपि, नैव भोगी स्वभावतः॥ पुण्यपापविपाकानां, भोक्ताऽपि बाह्ययोगतः। स्वात्मनि श्रीमहावीर, परानन्दं समश्नुते ॥ अनित्येषु सुखेष्वेव, वीरभक्तो न मुह्यति । परानन्दमयं वीरं, विना किश्चिन्न वाञ्छति ॥ ... १९६ सर्वकर्माणि कुर्वन्सन्नखण्डानन्दवेदकः। तथापि न करोत्येव, निबन्धः सर्वकर्मसु ।। अकर्तव्ये च कर्त्तव्ये, स्वतन्त्र आत्मबोधतः । आत्मप्रारब्धवेगेन, तस्य कायादिचेष्टितम् ॥ १९८ विश्वाधारमहावीरं, विना मुक्तिन देहिनाम् । कामासक्त्यादयो दोषा, नश्यत्ति नैव तं विना ॥ १९९ महावीरकृपां प्राप्य, नश्यन्ति तेऽतिवेगतः। गुरुमेव महावीरं, स्वं ज्ञात्वा यान्ति मुक्तताम् ॥ २०० दर्शनज्ञानचारित्रब्रह्मविष्णुमहेश्वराः। एवं त्रिमूर्तिरूपः स, वीरो व्यक्तो भवेद्धदि ॥ २०१ कलौ मेम्णा महावीरः, प्रत्यक्षो व्यक्तरूपतः । स्वस्मिन्स्वानुभवेनैव, स्वात्मरूपोऽनुभूयते ॥ २०२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308