Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 278
________________ २३८ [ चेटकस्तुतिः अधर्मस्य विनाशाय, दुष्टानां शासनाय च । सर्व विधीयते यत्तन्महावीरस्य पूजनम् ॥ २१५ जैनधर्मस्य रक्षार्थ, जैनानां वृद्धये तथा । क्रियते सर्वथा यत्सा, वीरसेवैव युक्तितः ॥ विश्ववर्तिमनुष्याणां, कल्याणाय विवेकिभिः। सर्वत्र क्रियते यत्स, वीर एवाऽस्ति मुक्तये ॥ स्वायत्तवित्तसत्तादिशक्तीनां रक्षणेऽखिलम् । धर्मिभिः क्रियते यत्तन्महावीरस्य सेवनम् ॥ बाह्यान्तरस्वशक्तीनां, स्वातन्त्र्यार्थ कलौ युगे। महावीरस्य सेवैव, क्रियते यव्यवस्थया । धर्म्ययुद्धादिकं सर्व, सत्यधर्मस्य रक्षणे। वीरसेवैव संबोध्यं, तत्र दोषा न धर्मिणाम् ॥ ... २२० पापदोषनिवृत्त्यर्थ, क्षात्रकर्मविवेकिभिः । क्रियते तत्र दोषास्तु, निर्दोषार्थ च मुक्तये ॥ सर्वबाह्यान्तरव्यक्तशक्तिवीराप्तये सदा । क्रियन्ते यानि कर्माणि, तानि सर्वाणि मुक्तये ॥ २२२ श्रीमहावीरसेवाया, आत्मोत्क्रान्तिः क्षणे क्षणे । स्वात्मनः श्रीपरब्रह्मरूपं व्यक्तं प्रजायते ॥ देहप्राणवियोगेन, मृत्युः स्याद् व्यवहारतः । देहाणवियोगेऽपि, चेतनो नैव नश्यति ॥ देहप्राणवियोगस्तु, जायते जीर्णवस्त्रवत् । कृतकर्मप्रसंगेन, प्राप्नोत्यात्माऽपरं वपुः ॥ अन्याऽन्यदेहसंयोगे, स्वात्मोत्क्रान्तिः प्रजायते । अनुभवानां व्यक्तत्वात्पूर्णोऽनुक्रमतो भवेत् ॥ " भवत्।। २२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308