________________
२३८
[ चेटकस्तुतिः अधर्मस्य विनाशाय, दुष्टानां शासनाय च । सर्व विधीयते यत्तन्महावीरस्य पूजनम् ॥ २१५ जैनधर्मस्य रक्षार्थ, जैनानां वृद्धये तथा । क्रियते सर्वथा यत्सा, वीरसेवैव युक्तितः ॥ विश्ववर्तिमनुष्याणां, कल्याणाय विवेकिभिः। सर्वत्र क्रियते यत्स, वीर एवाऽस्ति मुक्तये ॥ स्वायत्तवित्तसत्तादिशक्तीनां रक्षणेऽखिलम् । धर्मिभिः क्रियते यत्तन्महावीरस्य सेवनम् ॥ बाह्यान्तरस्वशक्तीनां, स्वातन्त्र्यार्थ कलौ युगे। महावीरस्य सेवैव, क्रियते यव्यवस्थया । धर्म्ययुद्धादिकं सर्व, सत्यधर्मस्य रक्षणे। वीरसेवैव संबोध्यं, तत्र दोषा न धर्मिणाम् ॥ ... २२० पापदोषनिवृत्त्यर्थ, क्षात्रकर्मविवेकिभिः । क्रियते तत्र दोषास्तु, निर्दोषार्थ च मुक्तये ॥ सर्वबाह्यान्तरव्यक्तशक्तिवीराप्तये सदा । क्रियन्ते यानि कर्माणि, तानि सर्वाणि मुक्तये ॥ २२२ श्रीमहावीरसेवाया, आत्मोत्क्रान्तिः क्षणे क्षणे । स्वात्मनः श्रीपरब्रह्मरूपं व्यक्तं प्रजायते ॥ देहप्राणवियोगेन, मृत्युः स्याद् व्यवहारतः । देहाणवियोगेऽपि, चेतनो नैव नश्यति ॥ देहप्राणवियोगस्तु, जायते जीर्णवस्त्रवत् । कृतकर्मप्रसंगेन, प्राप्नोत्यात्माऽपरं वपुः ॥ अन्याऽन्यदेहसंयोगे, स्वात्मोत्क्रान्तिः प्रजायते । अनुभवानां व्यक्तत्वात्पूर्णोऽनुक्रमतो भवेत् ॥
" भवत्।। २२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org