________________
कस्तुतिः ]
नयैर्भङ्गेश्व निक्षेपैर्नैव गम्यो विकल्पकैः । परब्रह्ममहावीरः, शुद्धबुद्धधाऽनुभूयते || निरञ्जनो निराकारो, महावीरोऽनुभूयते । आनन्दोल्लासरङ्गेण, निर्विकल्पात्मना स्वयम् ॥ साकारस्तु महावीरचक्षुषा मनसा तथा । दृश्यते देहयोगेन, गुणस्थानस्थचेतनः ॥ गुणस्थानक्रमेण श्रीमहावीरोऽस्त्यनेकधा । गुणानां तारतम्येन, व्यक्तशक्त्यादिधारकः ॥ व्यावहारिकशक्तीनां व्यक्तता तारतम्यतः । मनोवाक्काययोगस्थो, महावीरोऽस्त्यनेकधा ॥ अनेकधा महावीराः, पर्यायाणामपेक्षया । एक एव महावीरो, द्रव्यसत्तास्वरूपतः ॥ बाह्यातिशय मुख्यत्वान्महावीरस्य दर्शनम् । क्रियते बालजीवैस्तद्द्रव्यदर्शनमुच्यते ॥ दर्शन ज्ञान चारित्रगुणैर्वीरस्य दर्शनम् । क्रियते ज्ञानिभिस्तत्तु, भावदर्शनमुच्यते ॥ आन्तराऽतिशयैः सर्वैः, शुद्धात्मवीरदर्शनम् । कुर्वन्ति ज्ञानिनो लोका, भवन्ति मुक्तिगामिनः ॥ भावेन प्राप्यते देवो, यत्र तत्राधिरोपतः । अन्तर्दृश्यः स्वयं द्रष्टा, दर्शनं भावतो हृदि ॥ आत्मैव श्रीमहावीरो, देहदेवालयस्थितः । त्रिशला चेतना माता, ज्ञानसिद्धार्थसत्पिता । देशसेवा महाराष्ट्रविद्या सत्तादिशक्तये । महावीरस्वलाभाय, सेव्यो वीरः सुयुक्तितः ॥
Jain Education International
For Private & Personal Use Only
२३७
२०३
२०४
२०५
२०६
२०७
२०८
२०९
२१०
२११
२१२
२१३
२१४
www.jainelibrary.org