________________
२३६
[ चेटकस्तुतिः धर्माधर्मादिद्रव्याणां, धर्माज्ञाया नियामकः । अनाद्यनन्तकालीनमहावीरो हृदि स्थितः ॥ सर्वजातिकलानाथः, सर्वजातिकलाप्तये । महावीरः सदा सेव्यः, सर्वजातिजनैर्मुदा ।। नित्यानन्दमयं पूर्ण, परात्मानं सनातनम् । महावीरं हृदि प्राप्य, पूर्णरामो भवेज्जनः॥ स्पर्शेन्द्रियादिभोगेषु, पूर्णरामो न मुह्यति । प्रारब्धकर्मभोक्ताऽपि, नैव भोगी स्वभावतः॥ पुण्यपापविपाकानां, भोक्ताऽपि बाह्ययोगतः। स्वात्मनि श्रीमहावीर, परानन्दं समश्नुते ॥ अनित्येषु सुखेष्वेव, वीरभक्तो न मुह्यति । परानन्दमयं वीरं, विना किश्चिन्न वाञ्छति ॥ ... १९६ सर्वकर्माणि कुर्वन्सन्नखण्डानन्दवेदकः। तथापि न करोत्येव, निबन्धः सर्वकर्मसु ।। अकर्तव्ये च कर्त्तव्ये, स्वतन्त्र आत्मबोधतः । आत्मप्रारब्धवेगेन, तस्य कायादिचेष्टितम् ॥ १९८ विश्वाधारमहावीरं, विना मुक्तिन देहिनाम् । कामासक्त्यादयो दोषा, नश्यत्ति नैव तं विना ॥ १९९ महावीरकृपां प्राप्य, नश्यन्ति तेऽतिवेगतः। गुरुमेव महावीरं, स्वं ज्ञात्वा यान्ति मुक्तताम् ॥ २०० दर्शनज्ञानचारित्रब्रह्मविष्णुमहेश्वराः। एवं त्रिमूर्तिरूपः स, वीरो व्यक्तो भवेद्धदि ॥ २०१ कलौ मेम्णा महावीरः, प्रत्यक्षो व्यक्तरूपतः । स्वस्मिन्स्वानुभवेनैव, स्वात्मरूपोऽनुभूयते ॥ २०२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org