________________
१८२
१८
चेटकस्तुतिः ] स्वात्मैव श्रीमहावीरस्तत्त्यागे मृतकोपमाः। जना भवन्ति सर्वत्र, शक्तिहीना महाधमाः॥ १७९ समूहः सर्वशक्तीनां, स्वात्मैव सर्वभासकः । तत्त्यागे सर्वस्वातन्त्र्यशक्तिनाशोऽस्ति देहिनाम् ॥ १८० आन्तरबाह्यशक्तीनां, वृद्धयर्थ यद्विधीयते। तत्तु वीरस्य पूजैव, सेवाऽस्ति सर्वदेहिनाम् ॥ १८१ भक्ताधीनो महावीरो, भक्तभावानुसारतः। दात्येव फलं सम्यगसंख्यातप्रदेशवान् ॥ मोहासक्ता न पश्यन्ति, महावीरप्रभुं हृदि । देहाध्यासविनिर्मुक्ता, यान्ति वीरं न संशयः॥ वैषयिकसुखासक्तिर्यस्यात्मनो विनिर्गता। तदात्मैव महावीरः, पूर्णानन्दवरूपवान् ॥ सुखदुःखे न मुह्यन्ति, लाभाऽलाभे जयाऽजये। आत्माराममहावीरं, पश्यन्ति ते महाजनाः ॥ समत्वमेव वीरं यः, सर्वलोकेषु पश्यति । परब्रह्ममहावीरः, स एव परमेश्वरः ॥ सर्वसारेषु सत्सारो, महावीरप्रभुः सदा । परब्रह्ममहावीरो, रसेष्वेव महारसः ॥
१८७ जिनेन्द्रः श्रीमहारामः, सर्वसारमहारसः । महावीरः स संध्यो, महाकृष्णो महाहरिः ॥ तीर्थकृदन्तिमो देवो, विश्वोद्धारकयोगिराट् । पूर्वतीर्थेशभिर्दिष्टो, वर्द्धमानो महाजिनः ॥ महावीरं विना कोऽपि, तारको नैव वस्तुतः । सूर्यचन्द्रादयो यस्य, माहात्म्यस्य निवेदकाः॥
१९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org