SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २३४ अर्हद्वीरस्य संजापात्सूतकादिप्रकल्पिताः । दोषास्तु तत्त्वतो नैव, तथा पापं न देहिनाम् ॥ महावीरमयो यस्य, स्वात्मा जातोऽस्ति रागतः । बाह्यान्तरपवित्रः स कर्माण्यपि सदाचरन् ॥ वीररूपं जगत्सर्व, यदि प्रतिभासते । प्रतिबन्धो भवेत्कुत्र, त्याज्यं किं तस्य विद्यते ॥ वीररूपो महाज्ञानी, सैव भक्तशिरोमणिः । तद्वृदि नैव कर्त्तव्यमकर्तव्यञ्च विद्यते ॥ उच्चनीचादिभेदास्ते, जनेषु नैव वस्तुतः | गुणकर्मविभागेन, चतुर्वर्णविभागता ॥ [ चेटकस्तुतिः ॐ अर्ह श्रीमहावीर ! सर्वशक्तिप्रकाशक ! । शान्तिं तुष्टिं तथा पुष्टिं कुरु मे भक्तिरागतः ॥ इत्येवं मन्त्रजापेन, संस्कारादिशुभक्रिया । गुर्वाज्ञया प्रकर्त्तव्या, जैनलक्षणमीदृशम् ॥ संस्कारेषु महावीरशक्तीनां व्यक्तता भवेत् । 'आत्मनामिन्द्रियाणाञ्च, संस्काराः शक्तिवर्द्धकाः ॥ ज्ञानभावसमेता ये, संस्काराः स्वोन्नतिप्रदाः । हर्षोल्लासेन कर्त्तव्याः, सर्वकर्त्तव्यकर्मणाम् ॥ आन्तरबाह्यशक्तीनां वृद्धयर्थं सर्वयुक्तिभिः । कर्त्तव्याः सर्वसंकारा, वीराज्ञेति महाफला ॥ प्रारंभे सर्वकार्याणां मङ्गालार्थ जनैः सदा । ॐ अर्ह श्रीमहावीरजापः कार्यः शुभङ्करः ॥ प्राणान्तेऽपि न सन्त्याज्यो, महावीरप्रभुर्महान् । तत्त्यागे चक्रवर्त्यांद्या, रङ्कायन्ते न संशयः ॥ 5 Jain Education International For Private & Personal Use Only १६७ १६८ १६९ १७० १७१ १७२ १७३ १७४ १७५ १७६ १७७ १७८ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy