SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ चेटकस्तुतिः ] स्वाधिकारो न मोक्तव्यो, व्यावहारिककर्मसु । महावीरशुभाव, सर्वोन्नतिप्रचारिणी॥... महावीरस्य गीतानि, गायन्ति बोधपूर्वकम् । तेषु व्यक्तो महावीरो, जायते प्रेमयोगतः ॥ . १ ब्रह्माण्डानामनन्तानां, चक्रं यस्योपदेशवत् । वर्तते क्रमशः सोऽयं, महावीरोऽस्तु शान्तये ॥ १५७ यः कर्त्ता नैव संहर्ता, जीगनां कर्मणां तथा । साक्षीभूतो जिनेन्द्रः स, निराकारो निरञ्जनः ॥ १५८ कर्मयोगेन साकारो, वीरः कर्ताऽस्ति युक्तितः। कर्मातीतदशायान्तु, कत्तृत्वं नैव वस्तुतः ॥ कारकषद्कयोगेन, शुद्धवीरेषु वस्तुतः। कर्तृत्वमान्तरं नित्यसिद्धेषु परिवर्त्तते ॥ अशुद्धजीवीरेषु, कर्ममिश्रितकता। तथापि शुद्धसत्तातः, कर्तृत्वमान्तरं सदा ॥ संग्रहनयसत्ताकमहावीरप्रभौ सदा। कर्तृत्वादिसमावेशात् , पूज्यः संपूर्णरागतः ॥ कालादिपञ्चहेतूनां, संघोऽस्ति सर्वशक्तिमान् । चराचरजगत्कर्ता, महावीरो महाबलः ॥ १६३ वीरत्वमवबोद्धव्यं, कालादीनां स्वशक्तितः। वोरबोधानुसारेण, वर्तन्ते स्वस्वभावतः ॥ महावीरस्य भक्ता ये, चतुर्वर्णादिमानवाः। तेषु वीरस्य वासत्वादस्पर्यत्वं कदापि न ॥ १६५ येषां हृदि महावीरो, जैनेन्द्रः पावको महान् । अशुच्यस्पश्यदोषास्तु, तेषां नैव विवाधकाः ॥ १६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy