SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३२ - - [चेटकस्तुति आत्मैव श्रीमहावीरः, स्वकीयहृदये स्थितः। सर्वगः सर्वविश्वस्य, स स्वामी सर्वशक्तिमान् ॥ १४३ अन्तर्दृष्टिप्रयोगेण, महावीरः प्रलोक्यते। आत्मनि स्वात्मरूपेण, सच्चिदानन्दलक्षणः ॥ १४४ येषु देशेषु राष्ट्रेषु, समाजेषु च शक्तयः। प्रकाशन्ते स्वतन्त्रेण, तत्र वीरस्य वासता ॥ परतन्त्रमनुष्याणां, स्वातन्त्र्यार्थ मनीषिभिः । क्रियते कर्म यत्तच्छीमहावीरस्य सेवनम् ।। १४६ यत्र श्रीवीरदेवस्य, कृपावासः प्रजायते । दुष्कालादिविपत्तीनां, नाशस्तत्र विजायते ॥ १४७ सर्वराष्ट्रसमाजेषु, महावीरस्य संस्तुतिः । अहर्निशं भवेत्तत्र, श्रीधृतिकीर्तिकान्तयः॥ - महावीरकृपार्थ ये, कुर्वन्ति प्रार्थनादिकम् । शीघ्रं तदुन्नतिर्योग्या, जायते गुप्तशक्तितः ॥ संघे वर्णे समाजे चाऽस्पर्यभेदस्य मान्यता । तत्र वीरापमानेन, विद्यादीनां क्षयो भवेत् ॥ उच्चनीचजनाः सर्वे, महावीराः स्वसत्तया। महावीरतिरस्कारस्तद्धिक्कारविधानतः ॥ सर्वजातीयजीवेषु, कर्त्तव्यं वीरदर्शनम् । चतुर्गतिषु जीवेषु, स्वात्मवद्दर्शनं महत् ॥ कर्मोपाधिकृतान्भेदान्पश्यन्ति नैव पण्डिताः । यत्र तत्र महावीरं, पश्यन्ति ब्रह्मयोगिनः॥ १५३ तथापि व्यवहारेण, स्शधिकारप्रवृत्तिषु । वत्तितव्यं यथायोग्यं, सर्वजातीयनीतितः॥ १५४ १५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy