________________
बेटकस्तुतिः ]
नामाकृतिविभिन्नोऽपि, गुणैः सर्वत्र सर्वदा । एक एव महावीरस्स्वमेव परमेश्वरः ॥ सत्त्वरजस्तमोवृत्तिनाशकश्चेतनप्रभुः । प्रकृतिस्तु महादेवी, जीवानां सहगामिनी ॥ महावीरकृपापात्र सत्त्वानां प्रकृतिः स्वयम् । दर्शयति शिवस्थानं, सतां सन्मार्गदर्शिनी ॥ सत्त्वगुणस्वरूपैव महादेवी शुभङ्करा । वीराज्ञावर्त्तिनी जीव स्वर्गादिप्राप्तिकारिणी ॥ सगुणा महादेवी, विचित्राकृतिधारिणी । पुण्यरूपा च सर्वत्र, भावकर्मैव गीयते ॥ परब्रह्ममहावीर शासनाधीन वर्त्तिनी । बाह्यवीरस्वरूपैव प्रकृतिर्जीववर्त्तिनी ॥ प्रकृतिरेव संसारो, द्विधा सा सर्वथा स्थिता । जडा च चेतना नित्या, महाशक्तिर्द्विधा तथा ॥ प्रकृतिस्तु जड़ा बोध्या, ब्रह्मशक्तिस्तु चेतना । बाह्यान्तरस्वरूपे दे, जीवपुद्गलद्रव्ययोः ॥ महावीरस्य संज्ञाने वर्त्तेते ज्ञेयभावतः । अतः सापेक्षबोधेन, श्रीवीराऽभेदता तयोः ॥ महासत्ता महामाया, जीवाजीवप्रवर्त्तिनी । संग्रहनयसत्तात, एकैवाऽनेकधाऽपि सा ॥ ज्ञानज्ञेयस्वरूपेण, वीरस्याऽधीनवर्त्तिनी । भिन्ना नैव तदाज्ञातो, भिन्नाभिन्नाऽस्त्यपेक्षया ॥ १४१
,
महावीरस्वरूपा सा, तद्वशाः सर्वशक्तयः । अतः श्रीमन्महावीरादन्यत्सेव्यं न वर्त्तते ॥
Jain Education International
For Private & Personal Use Only
२३१
१३१
१३२
१३३
१३४
१३५
१३६
१३७
१३८
१३९
१४०
१४२
www.jainelibrary.org