SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २३० [ चेटकस्तुतिः परब्रह्ममहायोनिरसंख्यातप्रदेशकः । असंख्यदेवदेवीभिः, स्तुतो वीरो महाप्रभुः॥ वीरात्संजायते वीरो, वीरो वीरेण लभ्यते । अप्राप्यो वीर्थहीनेन, महावीरः स्वयंप्रभुः ॥ महावीरावतारोऽस्ति, पूर्णव्यक्तात्मशक्तिमान् । महादिव्यभवस्तस्य, सत्यधर्मप्रकाशकः ।। पूर्णानन्दघनो व्यक्तो, जायते ज्ञानिनां हृदि । वादेषु प्रतिवादेषु, व्यक्तरूपो न जायते ।। १२२ ॐ अर्ह श्रीमहावीरनाम्नः संस्मरणाद्वदि । महाहत्यादिपापानां, भवेन्नाशो न संशयः ॥ सर्ववर्णाऽधिकारोऽस्ति, महावीरस्य सेवने । महावीरस्य साहाय्यं, भक्तानां जायते सदा ।। महावीरस्य माहात्म्यं, ज्ञापयत्यखिलं जगत् । ज्ञानेन ज्ञायते सम्यग्देहाऽतीतो निरञ्जनः ॥ निराकारमहावीरो, दृश्यते नैव देहिभिः। इन्द्रियैमनसा चैव, मन्त्रतन्त्रादिभिस्तथा ॥ निराकारमहावीर, आत्मनि स्वात्मना स्वतः । सच्चिदानन्दरूपेण, योगिना स्वाऽनुभूयते ॥ साकारस्तु महावीरो, दृश्यते बाह्यचक्षुषा। . देशनाद्यैर्महावीरः, सर्वलोकस्य तारकः ॥ असंख्याता महावीराः, सन्तो ब्रह्मस्वरूपिणः । दृश्यन्ते शुद्धरागेण, श्रद्धया च महीतले ॥ १२९ निराकारो महावीरो, देहातीतो निरञ्जनः । सर्वज्ञः सर्वगः पूर्ण, एको देवो महाप्रभुः ॥ १२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy