________________
-
चेटकस्तुतिः] चतुर्दशमहाखप्नसूचितोऽध्यात्मशक्तितः। आत्मरूपमहावीरः, परिपूर्णो विलोक्यते ॥ बहिरन्त हावीरः, सर्वैरतिशयैर्युतः। पूर्णव्यक्तिपरब्रह्मा, दृश्यतेऽयं जगत्पतिः ॥ १०८. यथाऽयं व्यक्तितो वीरस्तथा मर्वेऽपि सत्तया। . परब्रह्ममहावीरप्राप्तिस्तु व्यक्तिशक्तितः ॥ प्राप्नुवन्ति न निर्वीर्याः, शुद्धात्मानं जिनं खयम् । प्राप्नुवन्ति स्वयं शुद्धं, सवीर्याः स्वीयशक्तितः॥ ११० दर्शनज्ञानचारित्ररूपत्रिमूर्तयः सदा। व्यक्तिसमष्टिरूपेण, सन्तु सर्वात्मशुद्धये ॥ दर्शनं तु महाब्रह्मा, चारित्रश्च महेश्वरः । पूर्णज्ञानं महाविष्णुरेतन्मूर्तित्रयं जिने ॥
११२ दर्शनज्ञानचारित्रत्रिशूलेन महाजिनः । रागद्वेषादिशत्रूणां, नाशकोऽहन्महाप्रभुः ॥ . ११३ वीर्यसिंहं समारुह्य, ध्यानवज्रेण कर्मणाम् । सर्वथा नाशकर्ता यो, महावीरोऽस्ति शान्तिदः॥ ११४ वीर्यहीना न जीवन्ति, जीवन्ति वीर्ययोगिनः । सर्ववीयस्वरूपोऽस्ति, प्राप्यो वीरो महाजनैः ॥ ११५. एक एव महावीरः, परेशोऽस्ति महाप्रभुः । पालकः सर्वविश्वस्य, सर्वज्ञः सर्वशक्तिमान् ॥ शुद्धात्मैव महावीरस्त्रिशलैव महामतिः। अन्तरात्नैव सिद्धार्थो, यशोदा शुद्धचेतना ॥ ११७ असंख्यातप्रदेशस्तु, जन्मभूमिः प्रतिष्ठिता। पर्यायाणां गुणानाञ्च, सर्वाधारः स्वभावतः ॥ ११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org