________________
२२८
[चेटकस्तुतिः सत्प्रेममयो वीरः, सत्यबोधात् प्रकाशते । दानमेव शुभो वीरो, दानात्यागः प्रकाशते ॥ ९५ शुद्धश्रद्धा महावीरः, पञ्चज्ञानमयस्तथा । सर्वजातीयशक्तिस्तु, वीर एव न संशयः ॥ सर्वजातीयतीर्थानां, कारको वीर एव सः। सर्वतीर्थमयो वीरस्तीर्थ, स्वात्मप्रकाशकम् ॥ तीर्थमात्मैव संबोध्य, उपादानस्वरूपकम् । निमित्ततीर्थमात्मैव, जङ्गमस्थावरात्मकम् ॥ प्रेम्णा नमस्कृतिः कार्या, दृष्ट्वा जीवान्परस्परम् । नमस्कार्यमहावीरः, सर्वदेहेषु तिष्ठति ॥ राम एव महावीरः, सीताऽस्ति शुद्धचेतना। कृष्ण एव महावीरो, राधाऽस्ति शुद्धचेतना ॥ .. .. १०० अम्बिकैव महावीरः, काली चक्रेश्वरी तथा । देवदेव्यो महावीरादभिन्नास्तु स्वरूपतः ॥ देवानां सर्वदेवीनां, रूपनामादिकल्पनाः । परब्रह्ममहावीरे, लयं यान्ति स्वभावतः ॥ १०२ अतः कलौ महावीरनामरूपादिसेवनम् । कर्त्तव्यं परमप्रीत्या, पूर्णब्रह्मप्रकाशकम् ।। परब्रह्ममहावीरं, व्यापकं परमेश्वरम् । अविदित्वा निजात्मानं, नाऽन्ये मार्गा विमुक्तये ॥ १०४ जैनधर्मो महावीरः, संघश्चैवं त्रिमूर्तयः। जीवानां मुक्तये सन्तु, सर्वमङ्गलहेतवः ॥ एक एव महावीरो, जैनेन्द्रः परमेश्वरः । विश्वाधारः परब्रह्मा, शरण्यः सर्वदेहिनाम् ॥ १०६
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org