________________
चेटकस्तुतिः ] श्रीवीराश्रितलोकानामायुषोऽन्ते न दुर्गतिः । परब्रह्मपदं पूर्ण, श्रीवीरार्पितचेतसाम् ॥ विद्यासत्ताधनैश्वर्य, प्राप्नुवन्ति न संशयः। महावीराक्रिता भक्ताः, सर्वसाम्राज्यवाहकाः ॥ सर्वेश्वरमहावीरादन्यः कोऽपि न रक्षकः । तापत्रयेण तप्तानां, सर्वसंसारिणां सदा ॥ यैर्जनैः श्रीमहावीरदेवस्य शरणं कृतम् । प्राणादीनां वियोगे ते, मुक्ति यान्ति न संशयः ॥ कलौ जैनेन्द्रसर्वज्ञवीरादन्यो न मुक्तिदः । परब्रह्ममहावीरार्पणं विश्वासतः शुभम् ॥ महावीरस्य वेदान्तः, स्यादादपदलाञ्छितः। अनेकान्तमयं तत्र, ब्रह्मतत्त्वं प्रकाशितम् ॥ महावीरागमा वेदाः सर्वे स्यावादसंयुताः । नास्तिकास्तत्र मुस्यन्ति, सारं गृह्णन्ति साधवः ॥ गुरुरेव महावीरः, पिता माता च संयमी। तेषां सेवैव वीरस्य, सेवा मुक्तिफलप्रदा ॥ रोगिणां रोगनाशार्थ, दुःखनाशाय दुःखिनाम् । क्रियते कर्म यत्किश्चित्तन्महावीरपूजनम् ॥ ज्ञानविद्याकलैश्वर्थप्रचारार्थ मनीषिभिः । यत्कर्म क्रियते विश्वशान्त्यै तबीर पूजनम् ।। पशुपक्ष्यादिरक्षार्थ, सर्वचेष्टास्ति देहिनाम् । महावीरस्य सेवैव, धर्मार्थकामसाधिका ॥ चतुर्विधमहासंघसर्वशक्तिविवृद्धये । सर्वकमैव तद्भक्तिर्महावीरफलप्रदा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org