SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २२६ [ चेटकस्तुतिः सद्गतिं नैव ते यान्ति, महावीरस्य निन्दकाः । तद्भक्तसेबकस्याऽपि, निन्दकानां न सद्गतिः ॥ जैनेषु च महावीरे, भेदोऽस्ति नैव वस्तुतः । तदभेदत्वमन्तारो, वीरधर्मानुयायिनः ॥ महावीरस्य सद्भक्ताः , परार्थवार्थकर्मसु । महावीरमयं सर्व, ज्ञात्वा मुह्यन्ति नो कदा ॥ यावद्वीरो न संज्ञातस्तावन्मोहो न नश्यति । यदा संज्ञायते वीरो, जीवन्मुक्तस्तदा जनः ॥ चरित्रं व्यक्तवीरस्य, सर्वकल्याणकारणम् । तच्छ्रोतारो महाप्रीत्या, यान्ति वीरस्य सत्पदम् ॥ यस्य द्वेषो महावीरे, तस्यान्याः सर्वदेवताः। पूजिता नैव मोक्षाय, भवन्ति दुष्टभावतः ॥ जले स्थले रणेऽरण्ये, दिने रात्री च संकटे । परब्रह्ममहावीरो, रक्षकः सर्वदेहिनाम् ॥ यद्भव्यं तद्भवत्येव, तत्र स्वात्मोन्नतिः शुभा। इत्येवं सत्यमन्तारो, वीरधर्मानुयायिनः॥ कालखभावनैयत्यमुद्यमः कर्म पञ्चमम् । ईश्वराः सन्ति पश्चैते, कार्यमृष्टिनियामकाः ।। परब्रह्ममहावीरज्ञाने सम्यक्प्रतिष्ठिताः । महावीरस्य संबोधात् , स्वायत्ताः स्वाऽनुकूलकाः ॥ ८० कर्ता हर्ता महावीरः, कर्ता हर्ता न वस्तुतः। नयैः सर्वैन यो गन्यो, वाच्यो नैव सतामपि । महावीरं न मन्यन्ते, दुष्टा मूढाश्च नास्तिकाः । मन्यन्ते श्रीमहावीरमास्तिका आर्थमानवाः॥ ८१ . स्तकाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy