________________
चेटकस्तुतिः] महावीरस्य रूपस्य, यान्ति पारं न योगिनः । ज्ञातारोऽपि महावीरपूर्णरूपं न जानते ॥ पूर्णरूपो महावीरो, गम्यो नैव सतामपि । वेदागमैस्तु तद्रूपं, किश्चिद्विश्वे प्रकाश्यते ॥ स्वपरात्ममहावीरः, सद्विचारमयो महान् । सर्वजीवस्य सेवैव, वीरोऽर्हन स्वहदि स्थितः ॥ बाह्यप्रवृत्तिरूपस्तु, बाह्यवीरो व्यवहृतेः। आन्तरस्तु महावीरो, ज्ञानानन्दादिरूपकः ॥ बाह्यान्तरमहावीरः, सर्वविश्वमयो गुरुः । सर्वात्मानो महावीराः, संसेव्या स्वात्मवत्सदा ॥ नित्यपूर्णरसो वीरः, प्राप्यते पूर्णयोगिना। पूर्णब्रह्मरसं वीरं, प्राप्य मोहो निवर्त्तते ॥ पूर्णानन्दरसो वीरः, स्वात्मैव स्वेन लभ्यते। वर्द्धमानरसः स्वस्मिन्पूर्णात्पूर्णः प्रकाशते ॥ चतुर्विधो महासंघो, वीर एवाऽस्ति नाऽन्यथा। महासंघस्य सेवैव, वीरसेवा सुखावहा ॥ महावीरापणं सर्व, फलं कर्त्तव्यकर्मणाम् । कृत्वा यो वर्त्तते सम्यक्, कर्मयोगी स भक्तराट् ॥ ६७ राष्ट्रसंघादिकं वीरं, विज्ञाय यः शुभेच्छया । फलाकाक्ष्यपि कर्माणि, कुर्वन्मुक्तो भवेत्क्रमात् ॥ सर्वकर्तव्यकमैव, वीरं ज्ञात्वोपचारतः । स्वाधिकारेण कार्याणां, कर्त्ता वीरस्य पूजकः ॥ यद्यत्काले भवेद्यत्तत्सर्वस्वात्मोन्नतिप्रदम् । विज्ञाय श्रीमहावीररूपो भवति मानवः ।।
Jain Education International -
For Private & Personal Use Only
www.jainelibrary.org