________________
२२४
सर्वजातीयस्वातन्त्र्य समुपासकमानवाः । महावीरस्य सद्भक्ता, मन्तव्याः पूर्णभावतः ॥ शक्तसंघो महावीरः, शक्तीनामैक्यपूजकः । यत्र शक्तिसमूहोsस्ति, तत्र श्री वीरदर्शनम् ॥ आविर्भावमहावीरो, गुणाविर्भावयोगतः । तिरोभावमहावीर, आत्मा मोहादिसंयुतः ॥ वर्द्धमान महावीरो, व्यक्तात्मा सद्गुणैर्महान् । व्यक्तवीरो महाब्रह्मा, जैनधर्मप्रवर्त्तकः ॥ महावीरं विना नैव, महावीरस्य वेदकः । दृश्यादृश्यः स्वयं ज्ञाता, स्वयं पूज्यश्च पूजकः ॥ शुद्धानन्दो महावीरो, व्यक्तो भवति योगिनाम् । जीवच्छत्तिसमूहः श्रीवीरः सर्वत्रपावकः ॥ उत्पादोऽस्ति महाब्रह्मा, व्ययो महेश्वरो महान् । ध्रुवो विष्णुर्महावीरे, त्रयो देवाः सदा स्थिताः ॥ ज्ञानं विष्णुश्च चारित्रं, हरो ब्रह्मा तु दर्शनम् । यो गुणा महावीरे, व्यक्ताव्यक्ताः सदा स्थिताः ॥ पूरक: कुंभकश्चैव, रेचको द्रव्यभावतः । ब्रह्माविष्णुमहादेवा, महावीरे प्रतिष्ठिताः ॥ परब्रह्ममहावीरे, व्ययोत्पादौ स्वभावतः । जायते सर्ववस्तूनां व्यवस्था क्रमवर्त्तिनाम् ॥ तरङ्गाणां व्ययोत्पादा, यथाऽन्धावात्मनि तथा । महावीरे गुणानां ते व्ययोत्पादाः स्वभावतः ॥ त्रिमूर्त्तिः पञ्चमूर्तिः स महावीरोऽस्त्यपेक्षया । विश्वमूर्तिर्महावोरो, ज्ञाने ज्ञेयस्य भासनात् ॥
Jain Education International
[ चेटकस्तुति:
For Private & Personal Use Only
४७
४८
४९
५०
५१
५२
५३
५४
५५
५७
५८
www.jainelibrary.org