________________
चेटकस्तुतिः ] परब्रह्ममहावीरो, दृश्याऽदृश्यप्रकाशकः । आन्तरो बाह्यरूपश्च, बाह्यान्तर्दृष्टियोगतः ॥ व्यष्टिसमष्टिरूपोऽस्ति, व्यक्तिसंघाद्यपेक्षया । स्वप्रमेयः प्रमाता च, वाच्याऽवाच्यो गिरांपतिः ॥ ३६. धर्माधर्मादितत्त्वानां, भासकोऽस्ति बृहस्पतिः । सर्वजातिचमत्कारा, महावीरस्य दर्शकाः ॥ सर्ववर्चःशिरोमान्यो, मूर्तीमूर्तस्वरूपकः। एकानेको महाज्योतिर्वीतरागो जिनेश्वरः ॥ कृष्णरूपो महावीरो, रामरूपः सनातनः । वायुदेवो महारुद्रो, धर्मचक्रप्रवर्तकः ॥ स्तुवन्ति चैव गायन्ति, महावीरं सुराऽसुराः । महावीरस्य संवासः, सद्भक्तानां सदा हृदि । सर्वविश्वमयं वीरं, ज्ञानी हृदि विलोकते । अज्ञानी तु महाभ्रान्त्या, स्वहृदि नैव पश्यति ॥ स्वनेत्राऽग्रे महावीरा, दृश्यन्तेऽनेकदेहिनः । सर्वप्राणिषु वीरत्वं, द्रष्टारो ज्ञानयोगिनः॥ यस्यांशो गम्यते लोकः, पूर्णरूपं न गम्यते। गम्याऽगम्यो महावीरः, कर्ता हर्ता स्वयंप्रभुः ॥ ४३ श्रीमहासंघसाम्राज्यवर्द्धकाः सन्ति हेतवः । तेषु श्रीवीरशक्तीनां, निवासोऽस्ति स्वभावतः ॥ समूहः सर्वशक्तीनां, महावीरोऽस्ति सर्वथा। प्राप्यः सर्वप्रयत्नेन, स्वातन्त्र्यस्य विवृद्धये ॥ जगढूपो महावीरः, सर्वस्वातन्त्र्यशक्तिषु । तत्प्राप्तिर्वीरपूजैव, तत्र किश्चिन्न संशयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org