________________
YY
२२२
[ चेटकस्तुतिः महाब्रह्म महाविष्णुः, स्वयंप्रभुर्महेश्वरः। सर्वतेजः प्रकाशात्मा, सर्वशक्तिनियामकः ॥ धर्मशक्तिमहायोनिः, सर्वयज्ञप्रकाशकः । जन्ममृत्युजराऽतीतो, निर्देहो देहवानपि । नियन्ता धर्मतीर्थानां, सर्वदेवशिरोमणिः । जगन्नाथो महावीरो, महाचैतन्यशक्तिराट् ॥ अर्हन् बुद्धो महावीरो, यद्धृदि विश्वरूपकः । शुद्धात्मा स महादेवः, पूर्णानन्दरसी महान् ॥ विश्वमेव महावीरः, स्वात्मा वीरः स्वयंप्रभुः । स्वात्मन्येव जगद्रष्टा, पूर्णब्रह्म महाविभुः॥ जीवसंघो महावीरः, समष्टियोगिराट् सदा। अनाद्यनन्तकालीनो, महावीरोऽस्ति सत्तया ॥ ... महावीराऽवतारास्तु, व्यक्तितः सादिसान्तकाः। आलम्ब्य प्रकृति स्वात्मा, दृश्यो भवति देहतः ॥ साकारोऽस्ति महावीरः, सर्वोपकृतिसाधकः । पूर्णव्यक्तः सदा बोध्यो, दृश्यः सर्वोपयोगिरात् ॥ सर्वजीवस्य रक्षायां, महावीरप्रभुमहान् । सर्वजीवस्य सेवायां, महावीरो विराजते ।। दयैव श्रीमहावीरः, सत्यमेव तथा भुवि । स्वातन्त्र्यं वीरदेवस्य, देहिनां शान्तिकारकम् ॥ महावीरमया बोध्या, आशीर्वादाः सतां शुभाः। परोपकारकर्माणि, सेवैव वीरयोगिनः॥ स्वात्मवत्सर्वजीवेषु, दर्शनं वर्तनं तथा । महावीरस्य सेवैव, परब्रह्मप्रकाशिका ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org