________________
चेटकस्तुति:] मनो वाकायसद्योगः, सर्वकर्त्तव्यकर्मणे। क्रियते यत्तु तत्सर्व, महावीरस्य पूजनम् ॥ निष्कामानां सकामानां, कर्मणां स्वाऽधिकारतः । परब्रह्म महावीर ! स्वार्पणं मुक्तिहेतवे ।। स्वात्मैव श्रीमहावीर ! परब्रह्म सदुच्यते। सत्तातोऽनेकधा जीवाः, परात्मानः स्वशक्तितः॥ सर्वजीवा महावीरस्वरूपाः शुद्धधर्मतः । आत्मरूपमहावीरा, अनन्ता व्यक्तितः सदा।। सत्तया सजीवास्तु, परात्मकः सनातनः । समष्टिव्यष्टिरूपः श्रीमहावीरोऽस्त्यपेक्षया । स्वात्मानं श्रीमहावीरं, हृदि ज्ञात्वैव भावतः । स्वात्मवत्सर्वजीवेषु, वर्तन्ते सत्ययोगिनः॥ निर्लेपः श्रीमहावीर, आत्मैव सत्तया सदा । अज्ञानमोहतो लेपो, देहिनां सर्वयोनिषु ॥ परब्रह्ममहावीरज्ञानान्मोहो विलीयते । महावीरस्य संज्ञानान्निलेपो भवति स्वयम् ॥ सर्वविश्वमयः स्वात्मा, ज्ञातो येन महात्मना । स निर्लेपो महावीरो, जायते नात्र संशयः ॥ महावीरमयं विश्वं, विज्ञातं यैरपेक्षया । परब्रह्मस्वरूपास्ते, जायन्ते व्यक्तशक्तितः ॥ रामकृष्णावताराणां, साकारब्रह्मणां सदा । परब्रह्ममहावीरे, समावेशः स्वभावतः ॥ महावीरप्रभुमुख्या, कलौ सर्वाऽवतारिषु । व्यापकः श्रीमहावीरः, साकारब्रह्म सुस्थितः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org