________________
चेटकस्तुति: ]
अनुक्रमेण देहानां प्राप्तौ ज्ञानांशशक्तयः । पूर्णत्वेन विकासन्ते, चेतने ज्ञेयभावतः ॥ अतः प्राणवियोगोऽस्ति, मृत्युरात्मोन्नतिक्रमे । आत्मनो व्यक्तिरूपत्वाद्गण्यते योगिभिः शुभः ॥ नाप्नोति मृत्युतो भीति, महावीरस्य सेवकः । देहादिस्वार्पणे योगी, कुत्राऽपि नैव मुह्यति ॥ पूर्णतेजोऽर्णवो वीरो, बहिरन्तः प्रकाशकः । तदशा अन्यदेवाद्या, यथाब्धौ जलबिन्दवः ॥ परिपूर्ण परब्रह्म, महावीरोदधिर्महान् । तत्तरङ्गसमा ज्ञेया, अन्यदेवाश्च देवताः ॥ देवा देव्यश्च लीयन्ते यस्य तेजोऽर्णवे सदा । महावीरोऽस्तु शान्त्यर्थ, सर्वत्र व्यापकः प्रभुः ॥ व्यक्ताव्यक्ततया धर्मा, जैनधर्मोदधौ सदा । जलबिन्दुसमा ज्ञेयाः, पूर्णब्रह्मप्रतिष्ठिते ॥ बहिरन्तः सदा पूर्णसर्वशक्तिमहोदधिः । महावीरोऽस्ति तच्छक्तिबिन्दुरूपाऽन्यदेवताः ॥ निरञ्जनो निराकारस्तेजोरूपमहाप्रभुः । महावीरो जगत्येकः, सर्वधर्मनियामकः ॥
,
यस्य तेजोऽर्णवे सव, विश्वं बिन्दुसमं सदा । भाति सोऽस्ति महावीरः सर्वतो यः परात्परः ॥ नरनारायणा यस्य, सर्वव्यापकतेजसि । विस्फुलिङ्गसमा भान्ति, महावीरः स शक्तिदः ॥ ज्योतिषामपि यो ज्योतिर्भासकः सर्वतेजसाम् । परब्रह्ममहावीरे, लीनोऽस्मि पूर्णरागतः ॥
Jain Education International
1
For Private & Personal Use Only
२३९.
२२७
२२८
२२९
२३०
२३१
२३२
२३३
२३४
२३५.
२३६
२३७
२३.८
www.jainelibrary.org