________________
२४०
[चेटकस्तुतिः जगत्त्रये न सारोऽस्ति, महावीरप्रभु विना । त्यक्त्वाऽन्यत्सच्चिदानन्दे, वीरे लीनोऽस्मि भावतः॥ २३९ तत्त्वमसि परब्रह्म ! महावीर ! जगत्त्रये । त्वां विनाऽन्यपदार्थेषु, मग्नता नैव जायते ।। यत्र तत्र महावीर ! त्वज्योतिर्भासते हृदि । त्वयि मदीयचित्तस्य, लीनताऽस्तु स्वभावतः ॥ २४१ भक्त्याऽहं त्वयि लीनोऽस्मि, सर्वव्यापकतेजसि। त्वां विनाऽन्येषु भावेषु, नैव रागोऽस्ति मे क्वचित् ॥ २४२ परब्रह्म महावीर ! त्वयोद्धारोऽस्ति मामकः । त्वयि मदात्मनः सर्वमर्पणं मुक्तिहेतवे ॥
२४३ मदीयज्योतिषां योगस्त्वत्पूर्णाखण्डतेजसि । ऐक्यरूपेण सर्वत्र, सर्वथा जायतां सदा ॥ २४४ पूर्णरागेण मग्नस्त्वदनन्तानन्ततेजसि । अनन्तानन्ततेजोन्धिरात्माऽसंख्यप्रदेशवान् ॥ २४५ पूर्णानन्दमहाज्योतिः, सर्वत्र सर्वशक्तिमान् । महावीर परब्रह्म ! त्वमेवाहमभेदतः ॥ परब्रह्मणि संलीने, मत्ततेंदो न भासते । सविकल्पदशायां तु, स्वामिसेवकभावता॥ २४७ निर्विकल्पपरब्रह्मसमाधावात्मशक्तयः । विकासन्तेऽनुभूयन्ते, योगिभिनिर्विकल्पकैः ।। २४८ निर्विकल्पनिराकारपरब्रह्ममहौजसि । स्वयि लीनः परप्रीत्या, नामरूपादितः परे ॥ मोहादिसंक्षयेणैव, सर्वथा सर्वदा त्वयि । शुद्धात्मलीनता मुक्तिरात्मरूपा स्वभावतः ॥ २५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org