________________
चेटकस्तुतिः] आत्माऽसंख्यप्रदेशेषु, ज्ञानानन्दादिपूर्णता। आविर्भावेण सा व्यक्ता, पूर्णमुक्तिः स्वभावतः॥ २५१ प्ररूपिता अपेक्षातो, मोक्षभेदा अनेकशः । त्वया पूर्णावबोधेन, मग्नता चाऽस्तु मे त्वयि ॥ २५२ आत्माऽसंख्यप्रदेशी त्वं, परात्मा परमेश्वरः । त्वमेवाऽहं समाधिस्थो, व्यक्तशक्तिस्वभावतः ॥ २५३ त्वयि रागस्तु मे पूर्णो. मुक्तिरूपा च मग्नता । कलौ त्वयि महाप्रीत्या, मुक्तिरेवाऽस्ति देहिनाम् ॥ २५४ आत्मप्रदेशरूपन्तु, पूर्णसर्वज्ञमन्तरा। ज्ञायते नैव केनाऽपि, विश्वासस्तत्र मुक्तिदः ॥ २५५ अतितर्का न कर्तव्या, जनैः श्रीवीरभाषिते । अरूप सर्वथा वेत्ति, सर्वज्ञः पूर्णभावतः ॥ २५६ स्वदुक्तसर्वतत्त्वेषु, श्रद्धा मेऽस्ति सुखावहा। त्वयि संपूर्णविश्वासो, व्यक्तस्त्वं मदि प्रभो !॥ २५७ गतिस्त्वमेव जीवानां, भक्तानां पूर्णरागतः । स्वस्वरूपन्तु वेत्सि त्वं, सर्वज्ञदृष्टिशक्तितः॥ २५८ स्वयि संपूर्णविश्वास्ये, विश्वानन्तमहौजसि । पूर्णरूपेण लीनोऽहं, यद्योग्यं तत्कृरुष्व मे ॥ 'शुद्धात्ममत्स्वरूपस्त्वं, मत्तदैक्यं स्वभावतः। त्वमेवाऽहं महादेव! द्रव्यपर्यायसाम्यतः ।। पूर्णब्रह्म महावीर ! केवलज्ञानतेजसि। विस्फुलिङ्गसमा वेदा, दृष्टिवादागमादयः ॥ २६१ अनन्तागमवेदाद्या, दृष्टिवादादयस्तथा । उत्पद्यन्ते विलीयन्ते, त्वदीयज्ञानवारिधौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org