________________
२४२
[ चेटकस्तुतिः दुर्बलानामनाथानां, पीडाकारकमानवाः। निर्वशास्ते प्रजायन्ते, प्रान्ते च दुःख भोगिनः॥ त्यागिनां दुर्बलानाञ्च, पीडनं दुःखकारकम् । तेषां दुराशिषा दुःखदावाग्नितप्तमानवाः ॥ २६४ निरपराधिजीवानां, हिंसकाः पापयोनिषु । जायन्तेऽनेकदेहस्ते, मुक्ति यान्ति न दुर्जनाः ॥ अनाथानां सहायेन, लोका यान्ति परं पदम् । अनाथा यत्र पीडयन्ते, तत्र दुःखपरम्परा ॥ २६६ महावीरकृपायोग्या, जायन्ते न नराधमाः । शुद्धबुद्धिं न ते यान्ति, गुरुवीरकृपां विना ॥ महावीरे त्वयि पूर्णश्रद्धावास्त्वजनोऽस्म्यहम् । स्वां विनाऽन्यं न याचेऽहं, प्रसीद परमेश्वर !॥ ..... २६८ त्वय्यहं पूर्ण विश्वासी, स्मरामि त्वां क्षणे क्षणे । त्वद्वियोगं सहे नाऽहं, क्षणमात्रमपि प्रभो ॥ २६९ याहरभावो भवेद्यस्य, त्वं तादृक् तद्धदि स्वयम् । व्यक्तो भव निजात्मस्त्वं, पूर्णरूपेण मद्धदि ॥ २७० आत्मनो ज्ञानचारित्रपर्यायाणां विशेषतः । प्राकटयं व्यक्तरूपं यत्त्वं तदेव नमोऽस्तु ते ॥ २७१ सत्पुण्यैश्यसे देव ! पापैस्तु नैव दृश्यसे । पुण्यमार्गप्रवृत्तानां, हृत्सु त्वं शर्मकारकः ॥ संवनिर्जराभेदेश्यस्त्वं त्वज्जनदि । पापमार्गप्रवृत्तानां, हृदि त्वं नैव गोचरः ॥ २७३ सर्वचैतन्यरूपेण, सर्वत्र सर्वदेहिषु । दृश्यसे त्वं स्वभावेन, चैतन्यसंघकल्पितः॥
२७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org