Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 275
________________ १८२ १८ चेटकस्तुतिः ] स्वात्मैव श्रीमहावीरस्तत्त्यागे मृतकोपमाः। जना भवन्ति सर्वत्र, शक्तिहीना महाधमाः॥ १७९ समूहः सर्वशक्तीनां, स्वात्मैव सर्वभासकः । तत्त्यागे सर्वस्वातन्त्र्यशक्तिनाशोऽस्ति देहिनाम् ॥ १८० आन्तरबाह्यशक्तीनां, वृद्धयर्थ यद्विधीयते। तत्तु वीरस्य पूजैव, सेवाऽस्ति सर्वदेहिनाम् ॥ १८१ भक्ताधीनो महावीरो, भक्तभावानुसारतः। दात्येव फलं सम्यगसंख्यातप्रदेशवान् ॥ मोहासक्ता न पश्यन्ति, महावीरप्रभुं हृदि । देहाध्यासविनिर्मुक्ता, यान्ति वीरं न संशयः॥ वैषयिकसुखासक्तिर्यस्यात्मनो विनिर्गता। तदात्मैव महावीरः, पूर्णानन्दवरूपवान् ॥ सुखदुःखे न मुह्यन्ति, लाभाऽलाभे जयाऽजये। आत्माराममहावीरं, पश्यन्ति ते महाजनाः ॥ समत्वमेव वीरं यः, सर्वलोकेषु पश्यति । परब्रह्ममहावीरः, स एव परमेश्वरः ॥ सर्वसारेषु सत्सारो, महावीरप्रभुः सदा । परब्रह्ममहावीरो, रसेष्वेव महारसः ॥ १८७ जिनेन्द्रः श्रीमहारामः, सर्वसारमहारसः । महावीरः स संध्यो, महाकृष्णो महाहरिः ॥ तीर्थकृदन्तिमो देवो, विश्वोद्धारकयोगिराट् । पूर्वतीर्थेशभिर्दिष्टो, वर्द्धमानो महाजिनः ॥ महावीरं विना कोऽपि, तारको नैव वस्तुतः । सूर्यचन्द्रादयो यस्य, माहात्म्यस्य निवेदकाः॥ १९० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308