Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
चेटकस्तुतिः ] स्वाधिकारो न मोक्तव्यो, व्यावहारिककर्मसु । महावीरशुभाव, सर्वोन्नतिप्रचारिणी॥... महावीरस्य गीतानि, गायन्ति बोधपूर्वकम् । तेषु व्यक्तो महावीरो, जायते प्रेमयोगतः ॥ . १ ब्रह्माण्डानामनन्तानां, चक्रं यस्योपदेशवत् । वर्तते क्रमशः सोऽयं, महावीरोऽस्तु शान्तये ॥ १५७ यः कर्त्ता नैव संहर्ता, जीगनां कर्मणां तथा । साक्षीभूतो जिनेन्द्रः स, निराकारो निरञ्जनः ॥ १५८ कर्मयोगेन साकारो, वीरः कर्ताऽस्ति युक्तितः। कर्मातीतदशायान्तु, कत्तृत्वं नैव वस्तुतः ॥ कारकषद्कयोगेन, शुद्धवीरेषु वस्तुतः। कर्तृत्वमान्तरं नित्यसिद्धेषु परिवर्त्तते ॥ अशुद्धजीवीरेषु, कर्ममिश्रितकता। तथापि शुद्धसत्तातः, कर्तृत्वमान्तरं सदा ॥ संग्रहनयसत्ताकमहावीरप्रभौ सदा। कर्तृत्वादिसमावेशात् , पूज्यः संपूर्णरागतः ॥ कालादिपञ्चहेतूनां, संघोऽस्ति सर्वशक्तिमान् । चराचरजगत्कर्ता, महावीरो महाबलः ॥ १६३ वीरत्वमवबोद्धव्यं, कालादीनां स्वशक्तितः। वोरबोधानुसारेण, वर्तन्ते स्वस्वभावतः ॥ महावीरस्य भक्ता ये, चतुर्वर्णादिमानवाः। तेषु वीरस्य वासत्वादस्पर्यत्वं कदापि न ॥
१६५ येषां हृदि महावीरो, जैनेन्द्रः पावको महान् । अशुच्यस्पश्यदोषास्तु, तेषां नैव विवाधकाः ॥ १६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308