Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
मन्त्रयोगः ]
,
अस्माकं पूर्णविश्वासः, सर्वथा त्वयि तारक ! | उद्धारं नः कुरु व्यक्त ! मन्त्रयज्ञेन शासक ! ॥ आधार: सर्वथा त्वं नः, सर्वशक्तिप्रचारक ! | त्वयि विश्वासिनां श्रेयः शीघ्रं कुरुत ॐ नमः ॥ त्वद्दासोऽस्मि महावीर ! मम दोषान्निवारय । आत्मानं त्वत्कृपापात्रं, कुरु विश्वपते ! मम ॥ सर्वमन्त्रस्वरूपस्त्वमिष्टं नः कुरु भक्तितः । पूर्णब्रह्ममहाव्यक्तसत्यमार्गान्प्रकाशय ॥ त्रिकोणे च चतुष्कोणे, यज्ञकुण्डे विवेकतः । होमः कार्यो दशांशेन, मन्त्राणां पूर्णजापतः ॥ षट्कोणे सर्वकार्याणां सिद्धयर्थं विधिवज्जनैः । होम: कार्यो महावीरयन्त्राणां जापपूर्वकः ॥ मन्त्रजापसमो यज्ञो, नैव भूतो भविष्यति । मन्त्रशक्तिसमा शक्तिर्नैव भूता भविष्यति ॥ मन्त्रजापो भवेद्यत्र, प्राकट्यं तत्र जायते । महावीरस्य शक्तीनां तत्र किञ्चिन्न संशयः ॥ महावीरस्य मन्त्राणां साफल्यं पञ्चमारके । जायते सत्यभक्तानां गृहस्थत्यागिनां शुभम् ॥ तीर्थे पवित्र संस्थाने, सरोवापीनदीतटे । उद्याने शुद्धमार्गे च कार्या मन्त्रस्य साधना ॥ महावीरे महाभक्तिर्यस्य तस्याऽस्ति साधना । धर्मार्थकाममोक्षाणां सिद्धिदानाऽन्यथा कदा ॥ महाश्रमण ! वीर ! त्वं, कषायोपशमं कुरु । आत्मसमाधिलाभोऽस्तु त्वत्प्रसादात्सदा मम ॥
Jain Education International
"
For Private & Personal Use Only
२११
१०७*
१०८
१०९.
११०
१११:
११२९
११३
११४"
११५.
११६
११७
.१.१८
www.jainelibrary.org
Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308