Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 268
________________ २२८ [चेटकस्तुतिः सत्प्रेममयो वीरः, सत्यबोधात् प्रकाशते । दानमेव शुभो वीरो, दानात्यागः प्रकाशते ॥ ९५ शुद्धश्रद्धा महावीरः, पञ्चज्ञानमयस्तथा । सर्वजातीयशक्तिस्तु, वीर एव न संशयः ॥ सर्वजातीयतीर्थानां, कारको वीर एव सः। सर्वतीर्थमयो वीरस्तीर्थ, स्वात्मप्रकाशकम् ॥ तीर्थमात्मैव संबोध्य, उपादानस्वरूपकम् । निमित्ततीर्थमात्मैव, जङ्गमस्थावरात्मकम् ॥ प्रेम्णा नमस्कृतिः कार्या, दृष्ट्वा जीवान्परस्परम् । नमस्कार्यमहावीरः, सर्वदेहेषु तिष्ठति ॥ राम एव महावीरः, सीताऽस्ति शुद्धचेतना। कृष्ण एव महावीरो, राधाऽस्ति शुद्धचेतना ॥ .. .. १०० अम्बिकैव महावीरः, काली चक्रेश्वरी तथा । देवदेव्यो महावीरादभिन्नास्तु स्वरूपतः ॥ देवानां सर्वदेवीनां, रूपनामादिकल्पनाः । परब्रह्ममहावीरे, लयं यान्ति स्वभावतः ॥ १०२ अतः कलौ महावीरनामरूपादिसेवनम् । कर्त्तव्यं परमप्रीत्या, पूर्णब्रह्मप्रकाशकम् ।। परब्रह्ममहावीरं, व्यापकं परमेश्वरम् । अविदित्वा निजात्मानं, नाऽन्ये मार्गा विमुक्तये ॥ १०४ जैनधर्मो महावीरः, संघश्चैवं त्रिमूर्तयः। जीवानां मुक्तये सन्तु, सर्वमङ्गलहेतवः ॥ एक एव महावीरो, जैनेन्द्रः परमेश्वरः । विश्वाधारः परब्रह्मा, शरण्यः सर्वदेहिनाम् ॥ १०६ १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308