Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
२२६
[ चेटकस्तुतिः सद्गतिं नैव ते यान्ति, महावीरस्य निन्दकाः । तद्भक्तसेबकस्याऽपि, निन्दकानां न सद्गतिः ॥ जैनेषु च महावीरे, भेदोऽस्ति नैव वस्तुतः । तदभेदत्वमन्तारो, वीरधर्मानुयायिनः ॥ महावीरस्य सद्भक्ताः , परार्थवार्थकर्मसु । महावीरमयं सर्व, ज्ञात्वा मुह्यन्ति नो कदा ॥ यावद्वीरो न संज्ञातस्तावन्मोहो न नश्यति । यदा संज्ञायते वीरो, जीवन्मुक्तस्तदा जनः ॥ चरित्रं व्यक्तवीरस्य, सर्वकल्याणकारणम् । तच्छ्रोतारो महाप्रीत्या, यान्ति वीरस्य सत्पदम् ॥ यस्य द्वेषो महावीरे, तस्यान्याः सर्वदेवताः। पूजिता नैव मोक्षाय, भवन्ति दुष्टभावतः ॥ जले स्थले रणेऽरण्ये, दिने रात्री च संकटे । परब्रह्ममहावीरो, रक्षकः सर्वदेहिनाम् ॥ यद्भव्यं तद्भवत्येव, तत्र स्वात्मोन्नतिः शुभा। इत्येवं सत्यमन्तारो, वीरधर्मानुयायिनः॥ कालखभावनैयत्यमुद्यमः कर्म पञ्चमम् । ईश्वराः सन्ति पश्चैते, कार्यमृष्टिनियामकाः ।। परब्रह्ममहावीरज्ञाने सम्यक्प्रतिष्ठिताः । महावीरस्य संबोधात् , स्वायत्ताः स्वाऽनुकूलकाः ॥ ८० कर्ता हर्ता महावीरः, कर्ता हर्ता न वस्तुतः। नयैः सर्वैन यो गन्यो, वाच्यो नैव सतामपि । महावीरं न मन्यन्ते, दुष्टा मूढाश्च नास्तिकाः । मन्यन्ते श्रीमहावीरमास्तिका आर्थमानवाः॥ ८१
.
स्तकाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308