Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 267
________________ चेटकस्तुतिः ] श्रीवीराश्रितलोकानामायुषोऽन्ते न दुर्गतिः । परब्रह्मपदं पूर्ण, श्रीवीरार्पितचेतसाम् ॥ विद्यासत्ताधनैश्वर्य, प्राप्नुवन्ति न संशयः। महावीराक्रिता भक्ताः, सर्वसाम्राज्यवाहकाः ॥ सर्वेश्वरमहावीरादन्यः कोऽपि न रक्षकः । तापत्रयेण तप्तानां, सर्वसंसारिणां सदा ॥ यैर्जनैः श्रीमहावीरदेवस्य शरणं कृतम् । प्राणादीनां वियोगे ते, मुक्ति यान्ति न संशयः ॥ कलौ जैनेन्द्रसर्वज्ञवीरादन्यो न मुक्तिदः । परब्रह्ममहावीरार्पणं विश्वासतः शुभम् ॥ महावीरस्य वेदान्तः, स्यादादपदलाञ्छितः। अनेकान्तमयं तत्र, ब्रह्मतत्त्वं प्रकाशितम् ॥ महावीरागमा वेदाः सर्वे स्यावादसंयुताः । नास्तिकास्तत्र मुस्यन्ति, सारं गृह्णन्ति साधवः ॥ गुरुरेव महावीरः, पिता माता च संयमी। तेषां सेवैव वीरस्य, सेवा मुक्तिफलप्रदा ॥ रोगिणां रोगनाशार्थ, दुःखनाशाय दुःखिनाम् । क्रियते कर्म यत्किश्चित्तन्महावीरपूजनम् ॥ ज्ञानविद्याकलैश्वर्थप्रचारार्थ मनीषिभिः । यत्कर्म क्रियते विश्वशान्त्यै तबीर पूजनम् ।। पशुपक्ष्यादिरक्षार्थ, सर्वचेष्टास्ति देहिनाम् । महावीरस्य सेवैव, धर्मार्थकामसाधिका ॥ चतुर्विधमहासंघसर्वशक्तिविवृद्धये । सर्वकमैव तद्भक्तिर्महावीरफलप्रदा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308