SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ मन्त्रयोगः ] , अस्माकं पूर्णविश्वासः, सर्वथा त्वयि तारक ! | उद्धारं नः कुरु व्यक्त ! मन्त्रयज्ञेन शासक ! ॥ आधार: सर्वथा त्वं नः, सर्वशक्तिप्रचारक ! | त्वयि विश्वासिनां श्रेयः शीघ्रं कुरुत ॐ नमः ॥ त्वद्दासोऽस्मि महावीर ! मम दोषान्निवारय । आत्मानं त्वत्कृपापात्रं, कुरु विश्वपते ! मम ॥ सर्वमन्त्रस्वरूपस्त्वमिष्टं नः कुरु भक्तितः । पूर्णब्रह्ममहाव्यक्तसत्यमार्गान्प्रकाशय ॥ त्रिकोणे च चतुष्कोणे, यज्ञकुण्डे विवेकतः । होमः कार्यो दशांशेन, मन्त्राणां पूर्णजापतः ॥ षट्कोणे सर्वकार्याणां सिद्धयर्थं विधिवज्जनैः । होम: कार्यो महावीरयन्त्राणां जापपूर्वकः ॥ मन्त्रजापसमो यज्ञो, नैव भूतो भविष्यति । मन्त्रशक्तिसमा शक्तिर्नैव भूता भविष्यति ॥ मन्त्रजापो भवेद्यत्र, प्राकट्यं तत्र जायते । महावीरस्य शक्तीनां तत्र किञ्चिन्न संशयः ॥ महावीरस्य मन्त्राणां साफल्यं पञ्चमारके । जायते सत्यभक्तानां गृहस्थत्यागिनां शुभम् ॥ तीर्थे पवित्र संस्थाने, सरोवापीनदीतटे । उद्याने शुद्धमार्गे च कार्या मन्त्रस्य साधना ॥ महावीरे महाभक्तिर्यस्य तस्याऽस्ति साधना । धर्मार्थकाममोक्षाणां सिद्धिदानाऽन्यथा कदा ॥ महाश्रमण ! वीर ! त्वं, कषायोपशमं कुरु । आत्मसमाधिलाभोऽस्तु त्वत्प्रसादात्सदा मम ॥ Jain Education International " For Private & Personal Use Only २११ १०७* १०८ १०९. ११० १११: ११२९ ११३ ११४" ११५. ११६ ११७ .१.१८ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy