SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ -२१२ सर्वदेवाधिदेव ! त्वं, पूर्णमुक्तिं प्रदेहि मे । वीतरागेन्द्र ! मे देहि, स्वात्मनः परमात्मताम् ॥ शुद्धात्मश्रीमहावीर ! स्वात्मैव परमात्मताम् । यातु त्वन्मन्त्रयोगेन, सर्वेषामन्तरात्मनाम् ॥ क्षयोपशमभावीया, आत्मनः सर्वशक्तयः । व्यज्यन्ते मन्त्रयोगेन, तथा क्षायिकलब्धयः ॥ ज्ञानाच्छादन कर्माणि, क्षीयन्ते मन्त्रयोगतः । संप्रति दृश्यते वीरः, प्रत्यक्षो मन्त्रयोगिनाम् ॥ आत्मरूप महावीरो, रोचते यन्निजात्मने । ददाति परिणामेन, स्वीयकर्तृत्वशक्तितः ॥ त्वच्छासने महावीर ! पञ्चमारे समुन्नतिः । सर्वदेशीय जैनानां, जायतां मन्त्रयोगतः ॥ सर्वजातीयदेशीय लोकानां पशुपक्षिणाम् । शान्त्यर्थं सर्वदा भुयान्मन्त्रयोगः सुखप्रदः ॥ ब्रह्मक्षत्रियवैश्यानां शूद्राणां सर्वशक्तितः । सर्वविश्वस्य जातीनां द्रुतं शातिं कुरु प्रभो ! ॥ नराणां चैव नारीणां बालानां वृद्धदेहिनाम् । ग्रहरोगाऽभिभूतानां शान्तिर्भवतु सर्वदा ॥ एकेन्द्रियादिसत्त्वानां शान्तिर्भवतु सर्वथा । मेघवृष्ट्यादिभिर्विश्वे, शान्तिर्भवतु सत्वरम् ॥ शान्तिर्भवतु जीवेषु, दुष्कालादिविनाशतः । कुरु शान्तिं महावीर ! जैनशासनवर्त्तिनाम् ॥ शान्तिर्भवतु लोकानां श्रेष्ठिनां भूभुजां भृशम् । सूरिवाचकसाधूनां साध्वीनाञ्च विशेषतः ॥ 9 , Jain Education International 9 [ मन्त्रयोगः For Private & Personal Use Only ११९ १२० १२१ १२२ १२३ १२४ १२५ १२६ १२७ १२८ १२९ १३० www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy