SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१० गुणकर्मविभागेन, दम्पत्योः शुद्धरागता । साम्यं गुणादिभिर्भूयादार्यत्वञ्च निरोगता || ॐ ॐ श्रीमहावीर ! सर्वशक्तिसमन्वितम् । पुत्रं देहि सुकन्याश्च, कलाविद्यागुणान्विताम् ॥ ॐ ह्रीँ श्रीँ क्लीँ महावीर ! वासुदेव ! महाहरे ! | कर्मयोगिमहामित्रं, प्रदेहि मे गुरुं शुभम् ॥ A ॐ अहँ श्रीँ महावीर ! गुणकर्मानुसारतः । secret सम्बन्धं, प्रदेहि मे विवेकदम् ॥ यूयं वयं वयं यूयं, विश्वबन्धुत्वभावना | महावीरप्रभावेण सर्वत्रैक्यं सदाऽस्तु नः ॥ ॐ ह्रीँ हाँ श्री महावीर ! संधैक्यं कुरु तत्क्षणम् । आत्मवत्सर्वलोकानामैक्यं मैत्रीश्च वर्द्धय ॥ [ मन्त्रयोग: ॐ ह्रीँ वँ शँ महावीर ! त्वत्प्रभावाद्विवेकिनः । उद्योगधृतिसम्पन्ना, उद्भवन्तु शुभर्हिताः ॥ सर्वजातीय जैनानां, विश्वेषु विश्वदीपकाः । विद्याकलागुणोपेता, बाला भवन्तु बालिकाः ॥ त्वदुक्तोपासनायोगः, सर्वशक्तिसमन्वितः । मदुक्तत्वन्महामन्त्रयोगाऽभिन्नस्त्वयि श्रितः ॥ सर्वदेवास्तथा देव्यस्त्वन्मन्त्रेषु व्यवस्थिताः । तन्मन्त्राणां समावेशस्त्वन्मन्त्रेषु स्वभावतः ॥ त्वत्तः सर्वे प्रकाशन्ते, लीयन्ते त्वयि सर्वथा । भेदाभेदस्तु मन्त्राणामपेक्षातस्त्वयि स्थितः ॥ सर्वमन्त्राऽधिराजस्त्वं, महावीर सनातन ! | अस्माकं सर्वजैनानां, शक्तिवृद्धिं कुरु प्रभो ! ॥ Jain Education International For Private & Personal Use Only ९५. ९६ ९८ १०० १०१ १०२. १०३ १०४ १०५. १०३ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy