________________
मन्त्रयोगः] स्वत्पुण्यौघप्रतापेन, शान्तिर्मेऽस्तु महाजिन !। स्वन्नामघोषमात्रेण, सर्वत्र शान्तिरस्तु मे ॥ ॐ अहँ ही महावीर ! पूर्णशान्तिप्रचारक। श्री ही कीत्तिं धृति विद्यां, लोकानां शान्तिमर्पय ॥ ८४ सर्वजातीयजैनानां, विद्याक्षात्रादिकर्मभिः । सर्वदेशेषु खण्डेषु, कुरु धर्ममहोदयम् ॥ जैनानां सर्वदेशेषु, वृद्धिर्भवतु सर्वथा । सर्वगृहस्थजैनानामस्तु वंशपरम्परा ॥ दिक्पालाश्च ग्रहाः सर्वे, त्वत्पदाम्बुजसेवकाः । कुर्वन्तु ते सहायं नस्त्वदाज्ञावशवर्तिनः ॥ ऐं आँ ही श्री महावीर ! विद्याशक्तिं प्रदेहि मे। वाकसिद्धिं देहि मे तूर्ण, वाग्देवीश ! विदाम्पते ॥ ८८ ऐं क्ली माँ नौं महावीर ! नमस्तेऽस्तु गिरांपते !। वादे देहि जयं पूर्ण, हृदयं मे प्रकाशय ॥ व्याख्याने च विवादे त्वं, मजिहवाहदि संवस। स्वयंसंबुद्धदेवेश ! श्रुताम्भोधि प्रकाशय ॥ त्वत्प्रभावाद्भूतं भूयाज्ज्ञानाच्छादनसंक्षयः । ऐं अाँ स्वाहा प्रभो ! त्वं मे, सर्वज्ञत्वं प्रकाशय ॥ ९१ ॐ ऐौँ क्ली महावीर ! ब्लूँ ऐ स्वाहा नमोऽस्तु ते । विद्यामन्त्राधिराजस्य, जापाज्ज्ञानी जनो भवेत् ॥ ९२ लक्ष्मीपतिमहावीर ! मम लक्ष्मी समर्पय । यशोदाकान्त ! वीर ! त्वं, योग्यां पत्नी प्रदेहि मे ॥ ९३ सर्वाधारमहावीर ! अहँ ॐ विश्वशासक !। विद्याकलागुणैर्योग्यं, पतिं देहि मम प्रियम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org