________________
૨૦૮
__ [ मन्त्रयोगः मातृपितृकलाचार्यसेवैव यज्ञमान्यता । धर्माचार्यप्रभोः सेवायज्ञः सर्वत्र शान्तिदः॥ पश्चयज्ञास्त्वयाऽऽख्यातास्तथाऽनेके शुभप्रदाः । सर्वयज्ञमयो वीर ! ॐ अहँ कुरु मत्प्रियम् ॥ सर्वमन्त्रस्वरूप! त्वं, महारौरवनाशक!। सर्वशक्तिमहावीर ! शान्ति मे कुरु तत्क्षणम् ॥ षट्चक्रेशमहावीर ! विश्वशान्ति द्रुतं कुरु । देशे संघे तथा राज्ये, शान्तिं कुरुष्व वेगतः॥ ॐ ही हाँ श्रीमहावीर ! शान्ति कुरुष्व रोगिणाम् । द्रुतं द्रावय दुःखौघान् , क्षुद्रोपद्रवसंकटान् ॥ गृहे शान्ति पुरे शान्ति, कुरु शान्ति प्रजासु च। . रोगशोकभयार्त्तानां, कुरु शान्ति जिनप्रभो !॥ ७६ दर्शन ज्ञानचारित्रगुणाऽऽनन्त्याद्यपेक्षया । अनन्ताः श्रीमहावीराः, शान्तये सन्तु नः सदा ॥ ७७ तीर्थेशे चरमेऽनन्ता, महावीरालयं श्रिताः। चरमेश महावीर ! शान्ति नः कुरु सर्वदा ॥ ॐ हीं अहँ महावीर ! जैनानां रक्षणं कुरु । जैनानां कुरु शान्ति त्वं, सर्वत्राज्ञाप्रचारक ! ॥ सूरिवाचकसाधूनां, श्राद्धानाच विशेषतः। साध्वीनां श्राविकाणाच, कुरु शान्तिसुखं सदा ॥ बालानां युवकानां त्वं, शान्ति कुरुष्व वेगतः। वृद्धानां नरनारीणां, रोगशान्तिं कुरु प्रभो ॥ देवदेवीकृतव्याधेः, शान्ति कुरु गुणालय!। उपसर्गस्य शान्त्यर्थ, प्राकट्यं ते कुरु प्रभो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org