________________
मन्त्रयोग: ]
६३
पारतन्त्र्यातं रक्ष, जैन संघ विशेषतः । सर्वत्र शक्तिसंपन्नान्, जैनान्भक्ति भरान्कुरु ॥ पक्षिपशुविशेषेण, धेनून् रक्ष महाप्रभो ! | सर्वत्र शक्तिसंभाररूपवीर ! जगत्पते ! ॥ आकस्मिक महोत्पाताद्रक्ष सर्वजनान्प्रभो ! | आकस्मिक महोत्पातान् द्रुतं नाशय नाशय ॥ गृहेऽरण्ये समुद्रे मां, द्रुतं रक्ष जिनेश्वर ! | सर्वत्र सर्वदा रक्ष, सर्वथा वीर ! मद्विभो ! ॥ आत्मशुद्धोपयोगश्रीमहावीर ! स्वयं प्रभो ! । मदात्मानं सदा रक्ष, त्वं शुद्धात्मन् ! हृदि स्थितः ॥ देशसंघे च राज्ये त्वं, योगक्षेमं कुरु प्रभो ! | शान्तिं तुष्टि महापुष्टि, कुरु स्वाहा नमोऽस्तु ते ॥ ६४ ॐ ह्रीँ श्रीँ क्लीँ महावीर ! पूर्णशक्तिप्रकाशक ! | ऐं झाँ साँ दर्शनज्ञानचारित्रपूर्णदो भव ।। देवदेवस्वरूपाय, महावीराय तायिने । इष्टं कुरु नमः स्वाहा, सर्वरोगविनाशिने ॥ ॐ हाँ ह्रीं हूँ महावीर ! विद्याशक्तिं समर्पय । दुष्टान् जहि जहि क्षिप्रं, साहाय्यं कुरु वेगतः ॥ सर्वेन्द्र पूज्य सर्वात्मपूर्ण शक्तिप्रभावतः । शाकिनी भूतवेताला, नश्यन्तु क्षणमात्रतः ॥ महामंत्रं स्मरेदेवं, भक्तः सर्वार्थसाधकः । जन्ममृत्यु महाचक्रं, नश्येन्मन्त्रप्रभावतः || ॐ ॐ श्रीमहावीर ! सर्वयज्ञमयप्रभो ! | पशुघातक यज्ञस्त्वं, दूरीकुरुष्व शक्तितः ॥
६५.
Jain Education International
For Private & Personal Use Only
२०७०
५९.
६१.
६२
६६:
६७
६८
६९
www.jainelibrary.org