________________
२०६
[ मन्त्रयोगः सर्वापत्तिविनाशोऽस्तु, नश्यन्तु दुष्टयुद्धयः ।। मम शान्तिञ्च सत्पुष्टिं, तुष्टि देहि कृपेश्वर !॥ सर्वदेवास्तथा देव्यः, सानुकूला भवन्तु मे। तब जापान्महावीर ! तत्क्षणं त्वत्पदाश्रिताः ॥ अहं ॐ श्री महावीर ! सर्वदुःखविनाशक !। राजादिकभयप्राप्ती, रक्ष रक्षाऽतिवेगतः ॥ मन्त्रस्तिष्ठसि यत्र त्वं, तत्र शान्तिः सदा सुखम् । महारोगभयं नास्ति, दुःखं भूतादिचेष्टितम् ॥ असत्यकामदोषेभ्यो, रक्ष रक्ष महाबल !। वीर्यरक्षां कुरु त्वं मे, ब्रह्मचर्यस्य धारक !॥ सर्वोपद्रवतो रक्ष, रक्ष रक्ष महाभयात् । राज्यं रक्ष श्रियो रक्ष, रक्षोत्पाताच शङ्कर ! ॥ विद्यां रक्ष धनं रक्ष, रक्ष व्यापारयोजनाम् । लोकानक्षाऽतिवेगेन, रक्ष वंशपरम्पराम् ॥ हिंस्रसिंहादितो रक्ष, रक्ष साधुपरम्पराम् । सर्वजातीयलोकान्त्वं, रक्ष रक्ष महाहरे !॥ अन्नागारं सदा रक्ष, धान्यक्षेत्रादिकं तथा। सैन्यं रक्ष पुरं रक्ष, सर्ववर्णान्विवेकतः ॥ धर्माचार्यान्द्रुतं रक्ष, जैनशासनरक्षकान् । धर्मप्रवर्तकानक्ष, त्यागिवर्गान्विशेषतः ॥ साध्वीवर्ग सदा रक्ष, सर्वशक्तिमयान गुरुन् । कलाचार्यान्सदा रक्ष, सर्वविद्याप्रवर्तकान् ॥ आर्यब्राह्मणसंघाँश्च, क्षात्रसंघ विशेषतः । वैश्यवर्ग सदा रक्ष, शूद्रवर्ग च शक्तितः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org