________________
२०५
मन्त्रयोगः ] ममोपरि कृपां कृत्वा, मदि त्वं सदा वस । सन्मार्गान्दर्शय स्पष्टान् , ॐ हीं वीर! नमोऽस्तु ते ॥ ३५ पादौ रक्ष शिरो रक्ष, हस्तौ रक्षोदरं तथा । सर्वांगं रक्ष मे वीर ! त्वत्प्रभावोऽस्तु मे हृदि ॥ ॐ वीरो भूर्भुवःस्वस्तभर्गो देवस्य धीमहि । श्रीसवितुर्वरेण्यं त्वं, धियोऽस्माकं प्रचोदय । गायत्री ते सदा रक्षा, कुरुतां सर्वथा मम । अनन्तवेदकर्ता त्वं, वीर ! सन्नितिं कुरु ॥ 'पूर्णाऽनन्तमहावीर ! मम बुद्धिं प्रवर्द्धय । ऐ ब्राँ ज्ञानोदधिं देहि, प्रसीद परमेश्वर !॥ अष्टसिद्धीश्च मे देहि, सर्वलब्धीश्च तत्क्षणम् । लब्धिसिद्धिर्महावीर ! त्वन्नामस्मृतिमात्रतः ॥ ॐ हीं श्रीं क्ली महावीर ! भूतशापान्निवारय। वर्तमानागतान शापान्नाशय मेऽतिरागतः ॥ परम्परागतान् शापान , वारय मेऽतिभक्तितः । त्वन्नामस्मरणाद्देव ! सर्वशापान्निवारय ॥ साधुब्रह्मसतीस्त्रीणां, दत्तान् शापान्निवारय । गुरुदत्तान्महाशापान , सर्वदत्तान्निवारय ॥ ऋषिहत्यादिपापानां, नाशोऽस्तु त्वत्स्कृतेः प्रभो!।। शापहत्याविनिर्मुक्तं, कुरु मां तत्क्षणं विभो!॥ चतुरशीतिमुष्टीना, बन्धं नाशय नाशय । ॐ अर्ह श्रीमहावीर ! त्वन्नाममंत्रसंस्मृतेः॥ ॐ ही दुर्गेश्वरव्यक्त ! महाकालीश्वरप्रभो!। महावीर! कृपां कृत्वा, त्वत्स्वरूपं प्रकाशय ॥ ४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org